________________
५६
काव्यमाला |
ष्ठसांसर्गिकविषयतानिरूपितभेदनिष्ठविशेष्यताख्यप्रकारतानिरूपितविशेषण
ताविशेषनिष्ठसांसर्गिकविषयतानिरूपिताधिकरण निष्ठविशेष्यताख्यप्रकारतानिरूपिता या स्वरूपनिष्ठसांसर्गिकविषयतानिरूपिता चन्द्रनिष्ठप्रकारतानिरूपितसमवायादिनिष्ठसांसर्गिक विषयतानिरूपितवृत्तित्वनिष्ठविशेष्यताख्यप्रका
रता तन्निरूपितखरूपनिष्ठसांसर्गिकविषयतानिरूपितधर्मनिष्ठनिष्ठविशेष्यताशालिज्ञानत्वम् इवपदशक्तिज्ञानस्य कार्यतावच्छेदकं कल्प्यम्, तद्भिन्नत्वे सति तद्गतधर्मवत्त्वे शक्तिकल्पने तु —– चन्द्रनिष्ठप्रकारतानिरूपितप्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपितभेद निष्ठविशेष्यताख्यप्रकारतानिरूपिता या विशे
षणताविशेषनिष्ठसांसर्गिकविषयतानिरूपिताधिकरणनिष्ठसांसर्गिकविषयतानिरूपितसमवायनिष्ठसांसर्गिकविषयतानिरूपितवृत्तित्वनिष्ठसांसर्गिकविषयतानिरूपिता चन्द्रनिष्ठप्रकारतानिरूपितसमवायनिष्ठसांसर्गिकविषयतानिरूपितवृत्तित्वनिष्ठविशेष्यताख्यप्रकारतानिरूपितखरूपनिष्ठसांसर्गिकविषयता
निरूपितधर्मनिष्ठविशेष्यताख्यप्रकारता तन्निरूपितसमवायनिष्ठसांसर्गिकवि
षयतानिरूपिताधिकरणनिष्ठविशेष्यताख्यप्रकारताशालिज्ञानत्वं तत्कार्यतावच्छेदकं कल्पनीयम् । धर्मवत्वमित्यत्र च धर्मवदितरावृत्तित्वादिघटितधर्मवत्वत्वेन धर्मवत्त्वज्ञानं तद्धटकवैशिष्टचादीनां च शक्तिज्ञानविषयत्वं चाधिकं कल्पनीयम्। मन्मते तु धर्मस्यैव विशेष्यतया तत्र धर्मत्वस्य स्वरूपेणैव प्रकारत्वमिति न तद्भटकानां ज्ञानविषयत्वकल्पनमिति लाघवम् । किं चषाधिकरणसमवायवृत्तित्वानां चतुर्णां सांसर्गिकविषयतात्वेनैव निवेशः । भेदनिष्ठप्रकारतानिरूपितेत्यस्य वृत्तित्वनिष्ठसांसर्गिकविषयतानिरूपितेत्यस्य च धर्मनिष्ठप्रकारतेत्यत्रान्वयः । अत्रापि चन्द्रस्य वृत्तित्वोपरि प्रकारतायां समवायस्य संसर्गत्वे पूर्वोतैव रीतिरनुसर्तव्या । एवं धर्मनिष्टप्रकारतायामपि अधिकरणत्वनिष्टविशेष्यतानिरूपितायां समवायस्य च संसर्गत्वेऽप्यवधेयम् । अधिकरणमिति मतुबर्थोल्लेखः । त्वप्रत्ययार्थमादायापि गौरवाधिक्यमाह - धर्मवत्वमिति । धर्मवदितरावृत्तित्वे सति धर्मवद्वृत्तित्वं धर्मवत्वत्वम् इति धर्मवत्पदार्थान्तर्गततद्वैशिष्ट्यादीनामपि तद्बोधविषयत्वकल्पनमिति गौरवमिति भावः । धर्मत्वस्येति । पदार्थान्तरमित्यभिप्रायेणेदम् । स्वरूपेणेति । निरवच्छिन्नस्यैवेत्यर्थः । धर्मत्वमपि तत्प्रतिबद्ध (ध्य ) संयोगाश्रयत्वादिरूप - मिति पक्षे त्वाह- किं चेति । वस्तुतस्तथापि धर्मवत्वापेक्षयात्र लाघवमेव धर्मत्वस्य तत्रापि प्रवेशान्मत्वर्थादेस्त्वाधिक्यमिति भावः । वस्तुतस्तु धर्मशक्तिपक्षे चन्द्रभिन्न