________________
अलंकारकौस्तुभः । वाच्यम् । धर्मवत्वेत्यत्रापि समवायसंसर्गतायास्त्वन्मते सत्त्वात् । न च धमस्योपमेयवैशिष्ट्ये समवायादिकं संबन्धस्त्वयापि वाच्य एव-इति वाच्यम्, इवार्थ एव लाघवगौरवयोर्विचार्यत्वात् । किं च तद्भिन्नवृत्तित्वे सति तद्त्तिधर्मे इवपदस्य शक्तिकल्पने--चन्द्रनिष्ठप्रकारतानिरूपितप्रतियोगित्वनिधर्मवत्वेति । त्वयापीति । इवार्थधर्मस्य समवायादिना उपमेयान्वयस्य वाच्यत्वादित्यर्थः । बोधस्वरूपकथनेन बोधविषयपदार्थस्वरूपं स्पष्टयितुमाह-किं चेति । प्रसिद्धोदाहरणमादाय बोधमाह-चन्द्रेति । चन्द्रभिनवृत्तित्वं चन्द्रभेदाधिकरणवृत्तित्वम् , आश्रयत्वस्योक्तप्रत्ययार्थत्वात् । तच्च चन्द्रवृत्तित्वोपरि सामानाधिकरण्येन विशेषणम् । अस्ति हि धर्मे चन्द्रभिन्नवृत्तित्वं चन्द्रवृत्तित्वं चेति स्वरूपसंबन्धेन तयोः सामानाधिकरण्यम् , अतश्च सामानाधिकरण्यस्य स्वरूपघटिततया चन्द्रभिनवृत्तित्वनिष्ठप्रकारतायां खरूपस्यैव संसर्गतयोल्लेखः । एतादृशबोधस्यायमाकारो द्रष्टव्यः । तथाहि तत्र चन्द्रः प्रतियोगितासंबन्धेन भेदे विशेषणम् , भेदश्च अभावीयविशेषणताविशेष्यसंबन्धेनाधिकरणे, तच्च वृत्तित्वे, इत्यादि । तत्रोत्तरत्र प्रकारतापदमुत्तरपदार्थनिष्ठविशेष्यतानिरूपकतयोक्तं पूर्वपदार्थनिष्टप्रकारतापेक्षया तस्या विषयताया विशेष्यतात्वमपि बोध्यम्। वृत्तित्वप्रकारतानिरूपितेत्यस्य द्वितीये वृत्तित्वनिष्ठप्रकारतेत्यत्रान्वयः । उक्तरीत्या तत्र खरूपं संसर्गतया निवेशितम् । यद्यपि चन्द्रवृत्तित्वमित्यत्र चन्द्रनिष्टप्रकारतानिरूपितायां वृत्तित्वनिष्ठविशेष्यतायां समवायस्य न संसर्गत्वम् । अपि तु निरूपितत्वात्मकस्वरूपस्यैव, न हि आधेयत्वमपि समवायेन वृत्तिमत् । अतश्च कथं तत्र समवायस्य संसर्गतया निवेशः । तथापि प्रकृते चन्द्रवृत्तित्वरूपविशेषात्मकरमणीयत्वादिरूपधर्मनिष्टं ग्राह्यम् । वृत्तित्वं च वरूपसंवन्धविशेषात्मकमिति रमणीयत्वादिरूपमेव । तस्य च चन्द्रे समवाय एवेत्यभिप्रायेण समवायस्य संसर्गताविधानं न विरुद्धम् । नन्वत्र चन्द्रस्य वृत्तित्वसंबन्धेन धर्मेऽन्वय इत्येवमुक्तम् । चन्द्रस्य रमणीयत्वात्मकवृत्तित्वे तस्य च रमणीयत्वे प्रकारतायां रमणीयत्ववद्रमणीयत्वमिति बोधापत्ते: रमणीयत्वे समवायेन चन्द्रस्य प्रकारतायां भासमानं यत्समवायरूपं वैशिष्टयं तत्प्रति. योगित्वानुयोगित्वाभ्यां रमणीयत्वस्य चन्द्रे प्रकारत्वम् , चन्द्रस्य विशेष्यत्वं च स्यादिति चेत् । मैवम् । अखण्डशक्तिपक्षे वृत्तित्वस्य पदार्थताया आवश्यकतया संसशैतानुपपत्तेः । वृत्तित्वेनैव बोधाद्रमणीयत्वप्रकारकतद्विशेष्यकबोधस्याप्यनापत्ते: अनुयोगित्वमुखेन समवायस्य संसर्गतायां तु दोषानवकाशाच्च । वस्तुतः स्वरूपस्यैवात्रापि संसर्गता वाच्या, अत एवाधिकरणादिनिष्ठप्रकारतानिरूपितायां वृत्तित्वनिष्टविशेष्यतायां स्वरूपमेव संसर्गत्वेन निवेशितम् । द्वितीयपक्षीयं बोधमाहचन्द्रनिष्ठेति । अत्र सामानाधिकरण्येन धर्मे भेदो विशेषणं तच्च विशेषणताविशेषेण खाधिकरणे समवायेन वृत्तित्वं ततो भेदस्य धर्मोपरि प्रकारतायां विशेषणताविशे