________________
काव्यमाला ।
द्भिन्नवृत्तित्वनिवेशस्तूभयत्र समानः । न च तद्भिन्नवृत्तित्वस्य तत्प्रतियोगिकान्योन्याभावाधिकरणवृत्तित्वरूपस्य निवेशे तवाप्यधिकरणत्वनिवेशःइति वाच्यम् , तद्भिन्नत्वे सतीति भेदनिरूपिताधिकरणत्वस्यापि विशेषणसाम्यात् । न च तद्भिन्नवृत्तित्वे सतीत्यत्र तदन्योन्याभावधर्मयोः सामानाधिकरण्यं संबन्धः, तच्च विशेषणतासमवायादिघटितम् , तेन भेद एव धर्मे प्रकारः, तव तूक्तसंबन्धघटितसामानाधिकरण्यस्यैव प्रकारतया तत्रैव तनिवेशः; परं च वृत्तित्वस्य खरूपात्मकसंबन्धेन वृत्तित्वेऽपि वैशिष्टयमिति महद्गौरवम् इति वाच्यम् , तवापि धर्मे तद्वृत्तित्वविशेषणस्य सत्त्वेन तत्र समवायादिनिवेशाल्लाघवानवकाशात् । न च मन्मते संसर्गीभूतसामानाधिकरण्यघटकत्वेन विशेषणताविशेषसमवायाद्योः तद्वृत्तित्वेत्यत्रत्व (१) समवायादेः प्रवेशः, तव तु प्रकारीभूतसामानाधिकरण्यघटकत्वेन विशेषणताविशेषसमवायाद्योवृत्तित्वे, वृत्तित्ववैशिष्टयघटकत्वेन च स्वरूपस्य निवेशः, धर्मे तद्वैशिष्ट्यघटकत्वेनापि स्वरूपस्य निवेशः, इति गौरवम्-इति
वृत्तित्वविषयताकल्पने परत्रापि तत्कल्पने लाघवमित्याशयः । अत एवाधिकरणत्वांशस्य भिनेत्यत्र त्वयापि निवेशात् । तस्यापि विषयता क्लृप्तैवेत्याशङ्कते—न चेति । निवेशमात्रेण साम्यमाह-भेदनिरूपितेति । तदधिकरणत्वनिवेशसाम्येऽपि तदुत्तरं वृत्ति. त्वनिवेशस्तवाप्यधिक इत्याशङ्कते-न चेति । प्रथमं भिन्नत्वस्योपमेयत्वविशेषणत्वमुक्तम् । अधुना भेदस्यैव धर्मविशेषणत्वमुच्यते इति विशेषः।सामानाधिकरण्यमिति। विशेषणताविशेषेण चन्द्रभेदवति मुखे समवायेन रूपविशेषात्मकरमणीयत्वादेः सत्त्वात् तदुभयघटितसामानाधिकरण्येन भेदस्य धर्मे प्रकारत्वम् । समवायेति । प्रकृताभिप्रायेण । अन्यत्र यथासंभवं संबन्धो ग्राह्यः । उक्तसंबन्धेति । विशेषणतासमवायोभयेत्यर्थः । प्रकारतयेति । तद्भिन्नवृत्तित्वस्यैव वृत्तित्वे वैशिष्टयाभ्युपगमात् । तस्य च भेदसामानाधिकरण्य एव पर्यवसानात् । तस्य प्रकारत्वेन भानम् । संसर्गता तु तत्र खरूपस्योति स्वरूपसंबन्धनिवेशोऽधिक इति भावः । सामानाधिकरण्यस्य संसर्गत्वस्वीकारे हि तद्विशिष्टत्वं नापेक्षेत, न हि संसर्गस्यापि संसर्ग विशिष्टबुद्धिरवगाहते, 'दण्डी पु. रुषः' इत्यादौ संसर्गीभूतसंयोगस्य समवायात्मकसंसर्गानुल्लेखात् । अन्यथानवस्थानादिति भावः । वृत्तित्वनिवेशमात्रस्य तवापि सत्वात्साम्यमिति समाधानाभासमाहतवापीति । पक्षान्तरवादी गौरवखरूपमाह-न च मदिति । मूलयुक्तिमाह