________________
अलंकारकौस्तुभः । यत्तु-तत्र 'रमणीयं च रमणीयश्च' इति द्वन्द्वे 'नपुंसकमनपुंसकेन' इत्येकशेषे एकवद्भावे च पुंलिङ्गरमणीयपदस्य चन्द्रे, नपुंसकस्य मुखेऽन्वयान्न दोषः—इति । तत्तुच्छम् । 'कुवलयमिव श्यामः कटाक्षः' 'ध्वान्तमिव केशो नीलः' इत्यादौ दुष्टोपमात्वप्रसङ्गस्य तथापि दुर्वारत्वात् । न च-तत्र दुष्टत्वमेव-इति वाच्यम् , मानाभावात् । 'दृष्टः पुनपुंसकयोः प्रायेण' इति वामनोक्तेरुभयत्र साम्यात् । 'प्राणा इव प्रियोऽयं मे' 'विद्या धनमिवार्जिता' इत्यस्यापि दण्डिनादोषेणाङ्गीकृतस्य दुष्टत्वप्रसङ्गाच्च । __ अत्रेदं तत्त्वम्-तद्भिन्नत्वे सति तद्गतधर्मवत्त्वं हि सादृश्यम् । तत्र तद्भिन्नवृत्तित्वे तद्वृत्तित्वमात्रमिवार्थः । तद्गतेत्यत्र वृत्तित्वस्य, धर्मवत्त्वमित्यत्राधिकरणत्वस्य च निवेशापेक्षयोभयवृत्तित्वनिवेशनस्यैव युक्तत्वात् । त
विकल्पेनैकवद्भावो भवतीति तस्यार्थः । तथा च रमणीयमित्यत्रोक्तरीत्या एकशेषेण पुंल्लिङ्गरमणीयपदस्यापि संग्रहात्तस्यैव चन्द्रेऽन्वय इति न दोषः इत्येषामाशयः । कुवलयमिवेति । पुंल्लिङ्गोपमेयक्लीबोपमानकस्थले साधारणधर्मस्योपमेयसमानलिङ्गत्वनियमेन तत्राप्युक्तरीत्या एकशेषाश्रयणेऽप्युक्तैकवद्भावे तत्रापि नपुंसकस्यैवाश्रयणापत्तेस्तत्रैकशेषस्य खीकर्तुमशक्यत्वादिल्याशयः । एवं सर्वत्राप्यदुष्टत्वप्रसङ्गात् प्रायशब्दविरोधाच्चादुष्टत्वेनाभियुक्तप्रसिद्धमेव स्थलमाह-प्राणा इवेति । इदं वचनभेदस्योदाहरणम् । विद्याधनमिति तु लिङ्गभेदस्येति द्रष्टव्यम् । प्रकारान्तरेण श्रौतार्थत्वविभागं व्यवस्थापयिष्यन्प्रथमं नैयायिकाद्यभिमतसादृश्ये विशिष्टशक्तिपक्षमाश्रित्य विचारयितुमुपन्यस्यति-अत्रेदमिति।तद्भिन्नेति । भवति च मुखं चन्द्रभिन्नं चन्द्र. गताह्लादिकत्वादिधर्मवच्चेति भावः । वक्ष्यमाणयुक्तिबलादाह-तत्रेति । धर्म ए. वार्थः, न तु तद्वत्त्वमपीत्यर्थः। यद्यपि तद्वत्त्वमपि धर्म एव, तथापि बोधे वैषम्यमस्त्येवेति भावः । नन्वेवं तद्भिन्नत्वं धर्मेणैव समन्वेति, न तूपमेयेन तथा च चन्द्र इव चन्द्र इ. त्यप्युपमा स्यात्, तत्रापि रमणीयत्वादिधर्मस्योपमानभिन्नत्वादित्यत आह-तद्भिनवृत्तित्वेति । ततश्च धर्मे न तद्वृत्तित्वं विशेषणम्, किंतु तद्भिन्नवृत्तित्वमेवेति भावः । न चैवमपि तद्दोषतादवस्थ्यं तद्भिन्नमुखा दिवृत्तित्वस्यापि धर्मे सत्त्वादिति वाच्यम् , तद्भिनपदेन उपमानतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवदुपमेयस्य विवक्षणात् । युक्तत्वादिति । एकत्राधेयत्वस्य परत्राधारत्वस्य च निवेशापेक्षया उभयत्राधेयत्वनिवेशस्यैवोचितत्वादित्यर्थः । यद्यप्याधारत्वाधेयत्वयोर्द्वयोरपि समवेतत्वादिसखण्डपदार्थत्वेऽतिरिक्तपदार्थत्वे वा शरीरसाम्यमेवेत्येकत्र वृत्तित्वस्यापरत्राधारत्वस्य च निवेशे उभयत्राप्याधेयत्वस्यैव वा निवेशे न किंचिद्गौरवं लाघवं वावतरति तथाप्येकत्र