SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। __केचित्तु–इवस्थले तथाबोधसंभवेऽपि 'यथा चन्द्रस्तथा मुखम्' इत्यादौ न तदुपपत्तिः । तत्र 'यादृशधर्मवांश्चन्द्रः, तादृशधर्मवन्मुखम्' इत्युपमानोपमेयोभयविशेष्यकबोधात् । तेन 'चन्द्र इव मुखम्' इत्यत्राप्युभयविशेष्यक एव बोधः । अत एव 'हंसीव धवलश्चन्द्रः' इति दुष्टोपमा तत्रापि यादृशधावल्यवती हंसी तादृशधावल्यवांश्चन्द्रः' इति बोधः पुंलिङ्गधवलपदस्य हंस्यामन्वयासंभवात् । अत एव श्रौतीत्वम् । द्वयोरेकविभक्तिकत्वेनोभयत्र साधारणधर्मसंबन्धस्य शाब्दत्वात् । 'चन्द्रेण तुल्यं मुखं मनोज्ञम्' इत्यादौ तु विभक्तिभेदान्न तथा । ‘पद्मं मुखं च मनोज्ञम्' इत्यादौ तु विभक्तिसाम्येऽप्युपमानोपमेयभावस्य प्रसिद्धिबलादेव लाभः—इत्यार्थत्वम्इत्याहुः । तन्न । 'चन्द्र इव मुखं रमणीयम्' इत्यत्राप्युपमाया दुष्टत्वप्रसङ्गात् । तत्राप्युपमानोपमेययोभिन्नलिङ्गतया मनोज्ञत्वस्य मुखान्वितस्य चन्द्रेऽन्वयासंभवात् । यिका इति । तथा च उक्तहेतुहेतुमद्भावोक्त्यनन्तरं नवादशिरोमणावभिहितम्'अत एव इवाद्यर्थान्वयबोधे न षष्टयाद्यपेक्षेति । संप्रति—'यत्रोपमाने उपमेये च साधारणधर्मसंबन्धः शाब्दबोध एव भासते, तत्र श्रौती, अन्यत्रार्थी' इति चक्रवर्तिमतमाह-केचित्त्विति । तथा बोधेति । उपमानप्रकारकोपमेयविशेष्यकेत्यर्थः । ननु यथा चन्द्र इत्यत्र प्रकारार्थकथाल्प्रत्ययवशायत्तच्छब्दाभ्यां वाक्यभेदावगमाच्चोभयविशेष्यकबोधाभ्युपगमः, अत्र तु न तादृशप्रमाणमस्ति, ये न वाक्यार्थबोधद्वयमङ्गीकुर्म इत्यतस्तदावश्यकत्वमाह-अत एवेति । अन्यथा तु हंसीसदृशश्चन्द्रो धवल इति बोधे बाधकाभावाल्लिङ्गभेदस्य दोषत्वानुपपत्तिरित्यर्थः । प्रकृतमाह-अत एवेति। उभयविशेष्यकबोधाभ्युपगमादेवेत्यर्थः । विभक्तिभेदादिति । नामार्थयोरभेदबोधे भिन्नविभक्त्यनवरुद्धत्वस्य तन्त्रत्वादिति भावः । पद्मं चेत्यनन्तरं तुल्य मिति शेषः, तद्विनिर्मुक्तस्य यथोक्तवाक्यस्य दीपकालंकार एव विश्रामात् । मुखान्वितस्येति । समानलिङ्गकत्वादित्यर्थः । अन्वयासंभवादिति । विशेष्यस्य चन्द्रस्य पुंल्लिङ्गत्वात् । अनियतलिङ्गवचनकनामार्थप्रकारकतादात्म्यसंसर्गकशाब्दबोधे समानलिङ्गवचनावरुद्धनामजन्योपस्थितेर्हेतुत्वकल्पनादिति भावः । नियतलिङ्गवचनात्तद्भेदेऽपि अभेदान्वयदर्शनात् अनियतेति । अत एव शब्दखण्डे मणिकारैरुक्तम्-'भिन्न विभक्तिकयोरिव भिन्नलिङ्गयोरपि सामानाधिकरण्येन विशेषणविशेष्यभावाभावात् अजहल्लिङ्गे तु लिङ्गनि. यमानुशासनान तथा' इति । 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति पाणिनीयसूत्रं नपुंसकस्यानपुंसकेन सह द्वन्द्वे नपुंसकमेव शिष्यते, इतरस्य तु लोपः, तस्य च
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy