________________
अलंकारकौस्तुभः ।
५१
इत्यस्यापि सुवचत्वाच्च । अन्विताभावबोधमपेक्ष्याभावप्रकारकबोधस्यैव नऊपदज्ञानकार्यतावच्छेदकत्वात् । एवं च प्रतियोगितांशस्य संसर्गतया भानसंभवे न तत्र नञादेः शक्तिः, अन्यलभ्यत्वात् । नच – 'घटोऽभावः ' इत्यत्रापि तथा भानसंभवे षष्ठयपेक्षा न स्यात् इति वाच्यम्, समानविभक्ति नामार्थयोरभेदान्वयस्यैवाकाङ्क्षितत्वेन तत्र घटस्य प्रतियोगित्वेनाभावान्वयासंभवात् । अन्यथाभावपदस्यापि घटप्रतियोगि काभावाचकत्वसंभवेन तवापि तत्र षष्ठीप्रयोगस्य दुःसमाधानत्वात् । नच– - निपातस्थल एवान्विताभिधानम् - इति वाच्यम् । त्वयान्विताभिधाननियामकत्वं यस्य वक्तव्यम्, तस्यैव मया षष्ठीप्रयोगनियामकताया वाच्यत्वात् । ' तद्धेतो :-' इति न्यायात् । तस्मात् – 'चन्द्र इव' इत्यादौ प्रतियोगित्वस्य संसर्गतया बोधान्न षष्ठी, ‘चन्द्रस्य सादृश्यम्' इत्यत्र तु संसर्गतया तद्भानासंभवात्षष्ठी -' इत्यस्य सुस्थतया न चन्द्रप्रतियोगिकसादृश्ये इवादेः, न वा घटप्रतियोगिकाभावे नञादेः शक्तिः – इति सिद्धम् । तस्मात् — निपातातिरिक्तनामार्थयोर्भेदान्वयबोध एव प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वम् — इति नैयायिकाः ।
र्यकारणभावकल्पनापेक्षयात्रापि गौरवाभावादाह - अन्वितेति । तथा च प्रथमावती - र्णलाघवानुरोधेन अभावत्वप्रकारक बोधत्वस्यैव कार्यतावच्छेदकत्वे कृप्ते पश्चात्कारणताद्वयकल्पनेऽपि न दोषः । फलमुखगौरवस्य दूषकत्वाभावात् । अत एव तत्पुरुषे पूर्वपदे संबन्धिलक्षणाप्रसङ्गात् तदपेक्षया लघुभूतं कर्मधारयमेवाश्रित्य पश्चादापद्यमानं निषाद - स्यापूर्वविद्याकल्पनमप्यङ्गीकृतम् । निषादस्थपत्यधिकरण इति भावः । अन्यलभ्यत्वादिति । 'अनन्यलभ्यः शब्दार्थ:' इति न्यायेन संसर्गतयापि बोधसंभवे तत्र शक्तेरकल्पनादित्यर्थः । समानेति । भिन्नार्थकविभक्त्यनवरुद्धेत्यर्थः । तथा चाभेदसंसर्गावच्छिन्ननामार्थनिष्टप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तन्नामोत्तरविभक्त्यर्थविरुद्धार्थक सुब्विभक्त्यसमभिव्याहृतपदजन्योपस्थितिः कारणम्, नीलो घट इत्यत्र द्वयोरेकविभक्तिकत्वात् । स्तोकं पचतीत्यादौ क्रियाविशेषणे च धातोस्तद्विरुद्धार्थक सुब्विभक्त्यसमभिव्याहृतत्वादुभयत्र नामार्थस्याभेदसंबन्धेन प्रकारकता । राज्ञः सुतस्य धनमित्यत्र समानविभक्तिकयोरपि राजसुतयोरभेदान्वयबोधविरहात् विरुद्धार्थकतेति भिन्नार्थकपरम् । तत्र चैका जन्यजनकभावे षष्ठी, परा च स्वस्वामिभावे, इत्यदोषः । पचतीत्यत्र धातोरपि आख्यातरूपक्रियाभिन्नार्थक विभक्तिसमभिव्याहारोऽस्तीति तत्र विशिष्टाभावसंपादनाय 'सुब्' इति विभक्तिविशेषणम् । एवं च 'ज्योतिष्टोमेन यजेत' इत्यादावपि ज्योतिष्टोमादेर्यागादावभेदान्वयः संगच्छते । नैया