________________
५०
काव्यमाला ।
स्यावश्यकत्वात् । अस्मद्रीत्या तु सादृश्यप्रतियोगिताया इवादिपदवाच्यतया षष्ठ्यनपेक्षणात् । नच — अव्ययस्थले विलक्षणव्युत्पत्तिबलान्न षष्ठी — इति वाच्यम्, तथासति तस्यैव गौरवस्यापत्तेः । अतोऽव्ययस्थलेऽन्विताभिधानम्, न तु तुल्यादिपदानामपि — इति । तन्न असमस्तनञो. ऽभावमात्रपरत्वेन प्रतियोगितांशस्य संसर्गमर्यादया भानसंभवात् । न च— 'घटस्य न' इति षष्ठयापत्तिः, 'नञ्पदजन्याभावोपस्थितौ प्रतियोगितां - शस्य संसर्गतयैव भानम्, अभावपदजन्यायां तु प्रकारतयैव' इति नियमाभ्युपगमात् । न च गौरवम्, त्वयापि 'घटो न' इत्यत्र पटाभाववारणाय ‘समभिव्याहृतपदार्थप्रतियोगिक एवाभावो भासते' इत्यस्याभ्युपगन्तव्यतया तदपेक्ष्य ‘अभावमात्रं नञर्थः, प्रतियोगित्वं संसर्गतया भासते' इत्यस्यैव युक्तत्वात् । ‘घटपदस्यैव घटप्रतियोगिकाभावपरत्वं नञ्पदं तात्पर्यग्राहकम्'
निपातजन्योपस्थितेरपि विशेष्यतासंबन्धेन कारणत्वं कल्प्यते । एवं च 'चन्द्रस्य सादृश्यम्' इत्यत्र सादृश्यस्य निपातजन्योपस्थित्यभावे न तत्र प्रतियोगित्वेन चन्द्रस्यान्वयानईतया तत्र प्रतियोगित्वबोधार्थे षष्ठयपेक्षा | चन्द्र इवेत्यत्र तु सादृश्यस्येवार्थतया निपातजन्योपस्थितिर्विशेष्यतासंबन्धेन तत्रास्त्येवेति तत्र प्रतियोगित्व संबन्धेन चन्द्रस्यान्वयोपपत्तेर्न षष्ठयपेक्षा । अतो व्यर्थे प्रतियोगित्वस्यापि इवार्थत्वकल्पनम् । न चैवमपि इवार्थसादृश्यस्याश्रयतया कथं मुखावन्वयः, नामार्थप्रकारकशाब्दत्वावच्छिन्नं प्रति नामजन्योपस्थितेः कारणतायां कार्यतावच्छेदकसंबन्धतया तादात्म्यस्यैव निवेशात् । भेदसंबन्धेन नामार्थप्रकार कशाब्दबुद्धौ च विशेष्यतया प्रत्ययजन्योपस्थितेः कारणत्वकल्पनात् मुखादेः प्रत्ययजन्योपस्थितिविरहात् निपातजन्योपस्थितेरपि तत्राभावेन चन्द्रस्य प्रतियोगित्वेन सादृश्यान्वयवत्सादृश्यस्याश्रयत्वेन मुखादावन्वयानुपपत्तेरिति वाच्यम् । निपातातिरिक्तनामार्थप्रकारकशाब्दबुद्धावेव तथात्वात् इत्याशङ्कते—नचेति । तस्यैवेति । निपातजन्योपस्थितिहेतुत्वकल्पनादिरूपस्येत्यर्थः । नियमेति । तथा च प्रतियोगि निष्टप्रकारता निरूपित प्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपिताभावविशेष्यकज्ञानत्वं नञ्पदशक्तिज्ञानस्य, प्रतियोगिनिष्ठप्रकारतानिरूपित प्रतियोगित्वनिष्टविशेष्यत्वाभिन्नप्रकारतानिरूपिताभावविशेष्यकज्ञानत्वं चाभावपदशक्तिज्ञानस्य कार्यतावच्छेदकं कल्पते । अत एव मिश्रैरप्युक्तम् - स एवार्थी भा - वसदृशादिपदेनान्यथा बोध्यते, क्वचित्संसर्गविधया क्वचित्प्रकारतया संबन्धभानात् । अतः पटो नेत्यादौ न षष्ठी, पटस्याभाव इत्यादौ तु षष्ठीति भावः । समभिव्याहारस्य तात्पर्यग्राहकत्वकल्पने गौरवविशेषाभावाद्विनिगमकाभावमाह - घटेति । उभयका