________________
अलंकारकौस्तुभः ।
४९ वत् । अत एव श्रौतीत्वं सादृश्यप्रतियोगिताख्यस्योपमानत्वस्येवपदेन बोधनात्-इति । ___ अत्र केचिदेवमाहुः--मीमांसकमतमतमभिसंधायैवात्र समाधानम् । तथा हि---चन्द्रप्रतियोगिकसादृश्यमिवपदार्थः 'घटो न' इत्यत्र घटप्रतियोगिकाभावस्य नअर्थतावत् । नच–सादृश्यमेवात्रेवादेरर्थः-इति वाच्यम्, 'चन्द्रस्य सादृश्यम्' इत्यादिवत् 'चन्द्रस्येव मुखम्' इत्यादेरप्यापत्तेः । 'घटस्याभावः' इतिवत् 'घटस्य न' इत्यादेरप्यापत्तेः । इवपदस्य सादृश्यमात्रवाचकतया ततः षष्ठयर्थसंबन्धालाभेन तद्बोधार्थ पष्ठीप्रयोगदृश्यस्यास्तीति तेन संबन्धेन चन्द्रस्य मुखेऽन्वयः इति प्रघट्टकार्थः । ततश्च प्रकारीभूतविभक्त्यर्थनिपातार्थान्यतरसंबन्धेन नामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासंबन्धेन नामजन्योपस्थितेः कारणत्वं कल्प्यते । न च निपातार्थस्यापि कार्यतावच्छेदकसंबन्धप्रवेशे गौरवमिति वाच्यम् । प्रामाणिकस्य तस्यादोषत्वात् । प्रकारीभूतविभक्त्यर्थस्य तथात्वे बीजभूतस्यानुभवस्य प्रकारीभूतनिपातार्थेऽप्यविशिष्टत्वात् । बोधनादितीति । इवार्थसादृश्यस्य प्रतियोगित्वेन चन्द्रान्वये सादृश्यप्रतियोगिचन्द्रीयसादृश्यमिति बोधोदयादित्यर्थः । तदेवं प्रतियोगित्वस्य संसर्गत्वेन बोधः, सादृश्यस्य च चन्द्रादावन्वयः, सादृश्यप्रतियोगितायाः शाब्दबोध्यत्वाच्छौतत्वम् । चन्द्रेण तुल्यमित्यादौ तु सादृश्यप्रतियोगितायाश्चन्द्रादावनवगमादार्थत्वम्, चन्द्रप्रतियोगिकसादृश्यवन्मुखमित्येव तत्र बोधात् । तुल्यत्वस्य नामार्थतया तत्र प्रतियोगित्वेन तस्य चन्द्रान्वयानुपपत्तेः । अतस्तत्र सादृश्यप्रतियोगितोपमानस्य न शाब्दबुद्धौ भासते, किंत्वर्थतस्तदुत्तरमानसज्ञान एवेति तन्मतरहस्यम् । संप्रति मतान्तरमाह-अत्र केचिदिति । अत्र श्रौतार्थत्वभिवागरूपे विषये । केचिन्महेश्वरादयः । एवमन्यथा तद्विवेकमाहुरित्यर्थः । मीमांसकेति । घटमानयेत्यादि पदानामितरपदार्थान्वितस्वार्थबोधकत्वमिति तत्सिद्धान्तः । अत्र तु निपातस्थल एवान्विताभिधानं न तु तुल्यादिपदेष्वित्यंशे तदनुसारः । तुल्यादिस्थले तदनभ्युपगमस्य वक्ष्यमाणत्वात् । अन्यथा 'इवादिप्रयोगे श्रौती, तुल्यादिप्रयोगे त्वार्थी' इति व्यवस्थानुपपत्तेः । चन्द्रस्येवेति । सादृश्यपदजन्यसादृश्योपस्थितौ नामार्थस्योपमानस्य सादृश्योऽन्वयार्थ यथा प्रतियोगित्वार्थकषष्ठयपेक्षा नामार्थयोः साक्षाद्भेदान्वयानुपपत्तेः । तथा इवार्थसादृश्येऽपि नामार्थत्वाविशेषादुपमानस्य प्रतियोगित्वसंबन्धेनान्वयानहत्वाद्विभक्तिजन्यतदुपस्थितिरपेक्षितेति प्रतियोगित्वबोधार्थे षष्ठी स्यादेवेति भावः । ननु भेदसंसर्गकनामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिजन्योपस्थितेरिव १. 'कार्यतावच्छेदकत्वे'.