________________
काव्यमाला।
नामुपमानविशेषणत्वनियमेन तैरप्युपमान एव धर्मसंबन्धो बोधयितुं शक्यते, न तूपमेयेऽपि । अन्यविशेषणस्यान्यत्र संबन्धबोधकत्वाभावात् । तथापि 'यथा चैत्रस्य धनम्' इत्यत्र चैत्रपदोत्तरषष्ठया चैत्रस्य स्वामित्वम्, धनस्य च स्वत्वं बोध्यते शब्दशक्तिस्वाभाव्यात् , तथात्रापीवपदेनोभयत्र तबोधनान्नानुपपत्तिः । न चैवमपि कथमुपमानोपमेययोर्भेदान्वयः-इति वाच्यम् । प्रकारीभूतविभक्तयर्थसंबन्धस्येव फलानुरोधान्नामार्थयोर्भेदान्वये प्रकारीभूतनिपातार्थसंबन्धस्यापि हेतुत्वकल्पनात् । 'सदृशचन्द्रीयं मुखम्' इति शाब्दबोधः 'चैत्रस्येदं' धनम्' इत्यत्र 'स्वामिचैत्रीयं धनम्' इतिनापन्नमेव सादृश्यमित्यर्थः ॥ तथा च वक्ष्यमाणरीत्या चन्द्र इत्यत्र सदृशचन्द्रीयं मुखमिति उभयत्र सादृश्यबोधः । चन्द्रेण तुल्यमित्यत्र तु चन्द्रसादृश्यवन्मुखमिति सादृश्यस्य नोपमाने विशेषणत्वम्, किंतु उपमेय एवेति वैषम्यमित्यर्थः ॥ नामार्थयोर्भेदान्वयानुपपत्त्या सादृश्यसंबन्धेन चन्द्रस्य मुखेऽन्वयोऽनुपपन्नः । अतः कथं 'सदृशचन्द्रीयं मुखम्' इति बोधः स्यादित्यभिप्रायवान्परिहरति-इवादीनामिति ॥ उपमानविशेषणत्वति । उपमाननिष्टविशेष्यतानिरूपितविशेषणताशालिस्वार्थकत्वेनेत्यर्थः ॥ नत्विति । उक्तरीत्या इवार्थसादृश्यस्य चन्द्रादावुपमानेऽन्वयोपगमे उपमेये तदन्वयानुप. पत्तेरेकत्र जनितान्वयबोधत्वेन निराकाङ्कत्वात् अतः सदृशचन्द्रसदृशं मुखमिति न शाब्दबोधसंभवः, तदेतदाह-अन्यविशेषणस्येति । न च-इवार्थसादृश्यस्य चन्द्र एवान्वयः, तस्य च सादृश्यसंबन्धेन मुखादावन्वयः इति सादृश्यं संसर्गीभूयैव सादृश्यविशिटचन्द्रप्रकारकमुखविशेष्यकबोधे भासताम् इति वाच्यम् , भेदसंबन्धेन नामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासंबन्धेन विभक्तिजन्योपस्थितेः कारणत्वकल्पनात्। उपमेयस्य च नामार्थत्वेन विभक्तिजन्योपस्थितिविशेष्यत्वविरहात् । अन्यथा 'नीलो घट:' इत्यादौ नीलघटयोरप्यभेदातिरिक्तसंबन्धेन विशिष्टबुद्ध्यापत्तेरिति शङ्कार्थः ॥ समाधत्तेतथापीति॥कथमिति । नामार्थयोरभेदान्वय एव व्युत्पत्तेः ॥ 'नीलो घटः' इत्यादावुक्तरीत्या कल्पनादित्यर्थः । प्रकारीभूतेति । नामार्थान्तरनिष्ठविशेष्यतानिरूपितविशेषणताशालिनामार्थनिष्ठविशेष्यतानिरूपितविशेषणताशालीत्यर्थः । चैत्रस्य धनमित्यत्र हि स्वामित्वं षष्ट्यर्थः, तस्याश्रयतया चैत्रेऽन्वयः, चैत्रस्य च स्वामित्वसंबन्धेन धनेऽन्वयः । तत्र धननिष्ठविशेष्यतानिरूपितविशेषणताशालिचैत्ररूपनामार्थनिष्टविशेष्यतानिरूपितविशेषणतास्वामित्वरूपविभक्त्यर्थस्यास्तीति तेन संबन्धेन चैत्रस्यापि धनेऽन्वयः ॥ एवं चन्द्र इव मुखमित्यत्र सादृश्यं इवार्थः, तस्य प्रतियोगितासंबन्धेन चन्द्रेऽन्वयः, चन्द्रस्य च सादृश्यसंबन्धेन मुखे, मुखरूपनामार्थनिष्टविशेष्यतानिरूपितविशेषणताशालिचन्द्ररूपनामार्थनिष्ठविशेष्यतानिरूपितविशेषणताशालित्वं इवरूपनिपातार्थसा
१. 'ति' क.