________________
अलंकारकौस्तुभः ।
एवं श्लेषेऽपि
'नरसिंह महीपाल सर्वोऽप्यरिगणस्तव । पारावारसमानत्वं दधाति खपदच्युतः ॥' इत्यत्र वैरिसमुद्रयोः स्वपदच्युतत्वधर्मनिमित्तकमेव सादृश्यम् ॥
एवमुपचारेऽपि —
'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । नाकारि विमित्रं स विकलहृदयो विधिर्वाच्यः ॥' इत्यत्र काठिन्यस्य पृथिवीगुणत्वेन चित्त उपचारः । दयाविरहवत्त्वात् । ततश्च दयाविरहे काठिन्याभेदाध्यवसायेन कुलिशचित्तयोः सादृश्यप्रतीतिः, अन्यनिमित्तकसादृश्यस्याप्रसिद्धेः । तस्मात्कश्चिद्धर्मः सादृश्यनिर्वाहकः, कश्चित्तु तदुत्कर्षकः - इति सिद्धम् ॥ इदानीम् —
'उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । ये शेषा लक्षणे नोक्ता संसाध्यास्तेऽपि लोकतः ॥'
४७
इति भरतवाक्यमभिसंधाय तां विभजते-
श्रत्यार्थी साद्विविधा वाक्ये वृत्तौ च तद्धिते तद्वत् । 'चन्द्र इव मुखम् ' इत्यत्र शाब्दबोधे तावत्केचिदाहुः यद्यपि - यथेवादिशब्दानां तुल्यादिपदानां च सादृश्यबोधकत्वाविशेषाच्छ्रौतार्थत्वविभागानुपपत्तिः । न च - इवादिभिरुभयत्र धर्मसंबन्धः शतया प्रत्याय्यते, तुल्यादिभिस्तु धर्ममात्रम्, इति विशेषः - इति वाच्यम्, इवादीवक्ष्यमाणानां मूलानुमतत्वदर्शनाय भरतवाक्यं दर्शयति - उपमाया इति । उपमायाः श्रौतार्थत्व विभागस्य शाब्दबोधनिबन्धनत्वात्प्रथमं बोधमेव विचारयितुमाह-चन्द्र इवेति । यद्यपीत्यादिबधकत्वाभावादित्यन्ता शङ्का ॥ बोधकत्वाविशेषादिति । सादृश्यप्रत्ययस्योभयत्रापि सत्त्वादित्यर्थः । वैषम्यं शङ्कते - न चेति । उभयत्रेति । उपमानोपमेययोरित्यर्थः । वक्ष्यमाणरीत्या चन्द्र इव मुखमित्यत्र उभयत्र तत्संबन्धबोधोपपत्तेरित्यर्थः ॥ शक्त्येति । तादृशोभयान्वितसादृश्यबोधकत्वस्वाभाव्येनेत्यर्थः । सर्वत्र धर्मपदमत्र सादृश्यपरम् ॥ धर्ममात्रमिति । प्रतियोगितयोपमाने विशेषणत्वा
१. 'पदान्प्रम्' २. 'शब्दानाम्' इति भवेत्.
-