________________
४६
काव्यमाला ।
म्बमावस्थले तु — 'मरकतभाजनशङ्खशुक्तिप्रतियोगिकसादृश्याश्रयो बलाकाबिसिनीपत्रवृत्तिः' इति बोधः । तदाधारतापन्नयोश्च भाजनपत्रयोर्भेदे सति तद्वृत्तित्वेन धर्मेण तत्सादृश्याभावेन मरकतभाजनबिसिनी पत्रयोरमेदारोपेणैव पर्यवसाने तन्निमित्तसादृश्यज्ञानं मानसमेव । न च -: - श्वैत्येनैव तत्सादृश्यनिर्वाहः इति वाच्यम्, तदा शङ्खशुक्तौ मरकतभाजनवृत्तित्वविशेषणवैयर्थ्यापत्तेः तादृशघटकातिरिक्तोपमानविशेषणोपादानस्य वैयर्थ्यात् । एकधर्मघटितसादृश्यापेक्षया बहुधर्मघटितस्य तस्य चमत्काराति
शयजनकत्वाच्च । अत एव
'यान्त्या मुहुर्वलितकंधरमाननं तदुद्वृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥' इत्यादावपि वस्तुप्रतिवस्तुभावस्थले निर्वाहः । अन्यथा सौन्दर्येणैव धर्मेण साम्यनिष्पत्तौ कंधरावृन्तयोरैक्यारोपेण साधारण्यानुपयोगापत्तेः ॥
अयं च विशेषः - ' उत्खातद्रुममिव शैलम्' इत्यत्र शैलदुमयोर्धर्मान्तरप्रयोज्यचमत्कार कसादृश्यस्याप्रसिद्ध्योत्खातद्रुमत्वस्य सादृश्यप्रयोजकत्वानुसंधानं विना न प्रतीतिपर्यवसानम् । 'यान्त्या मुहु:-' इत्यादौ तु कंधरावृन्तादीनामैक्यबोधाभावेऽपि सौन्दर्यादिना सादृश्यधीपर्यवसानं भवत्येव । परं तु कंधरावृन्तादीनामभेदबुद्धेः सादृश्यज्ञाने उत्कर्षकत्वमा - 1 त्रम् — इति ॥
एवं बिम्बप्रतिबिम्बभावस्थलेऽपि यत्र बिम्बप्रतिबिम्बभावापन्नधर्मव्यतिरेकेण सादृश्यमप्रसिद्धम्, तत्रापि बोध्यम् ।
यथा
'कोमलातपबालाभ्रसंध्याकालसहोदरः । कुङ्कुमालेपनो भाति कषायवसनो यतिः ॥'
इत्यादौ । नत्र धर्मान्तरेण यतिसंध्याकालयोः सादृश्यं प्रसिद्धम्, अपि तु — अभेदाध्यवसायविषयीभूतको मला तपकुङ्कुमादिधर्मेणैवेति ॥