________________
अलंकारकौस्तुभः ।
४५
कधर्मनिर्देशाद्वस्तुप्रतिवस्तुभावः, 'सुमृणाल -' इति समासभेदः, 'सौरभा'
इति श्लेषः ॥
वस्तुप्रतिवस्तुभावसमासभेदानुगामित्वानां यथा'दरस्फुरित कोमलाधरतला मनागीक्षणक्षणैकविषयीभवद्विशदमुग्धदन्ताग्रभूः । परिप्लेवितपलवा किमपि दृश्यत्कोरका
लतेव हरति प्रिया किसलयाग्रहस्ता मनः ॥'
अत्र बिम्बप्रतिबिम्बभावापन्नानामधरपल्लवानां दन्तकुड्मलानां च स्फुरितपरिप्लवने ईक्षणविषयीभवनदृश्यत्वे च पृथगुपात्ते [इति वस्तुप्रतिवस्तुभावः], हरणमनुगामि, 'किसलया -' इति समासभेदः || वस्तुप्रतिवस्तुभावश्लेषानुगामित्वानां यथा'घनसारसारविशदां कण्टकितां सा तनुं धत्ते । पुष्पालीमिव केतकवली धूलीसितां मृद्वीम् ॥' अत्र बिम्बप्रतिबिम्बभावापन्नयोर्धन सारधू ल्योविंशदसितत्वरूप एकधर्मः पृथगुक्त [इति वस्तुप्रतिवस्तुभाव]:, कण्टकेति श्लेषः, मृद्वीमित्यनुगामि ॥ वस्तुप्रतिवस्तुभावानुगामित्वोपचाराणां यथा—
'मोहयति पिहितवदनो बालाया एष कुन्तलकलापः । प्रावृष इवाम्बुवाहछन्नविधुर्बान्धवस्तमसः ॥'
अत्र विम्बप्रतिबिम्बभावापन्नयोर्मुखचन्द्रयोः पिहितच्छन्नरूप एक एव धर्म उक्त इति वस्तुप्रतिवस्तुभावः, मोहयतीत्यनुगामी, बान्धवेत्यु
पचारः ॥
एवमन्ये प्रकाराः स्वयमूह्याः सुलभलादुपेक्षिता इति दिकू ॥ अयं चात्र विशेषः - धर्मस्यानुगामित्वे पदार्थतावच्छेदकप्रकारेणोपस्थितौ सत्यां तद्रूपेणैवोपमानोपमेययोस्तद्बोधः प्रसिद्ध एव । बिम्बप्रतिवि
१. 'शः, सुम्' क. ४. क- पुस्तके नास्ति.
२. 'प्लवनि' क; 'लविनि' ख. ३. 'पल्लवत्वे' क. ५. क-पुस्तके नास्त्ययं पाठः ६. 'विहित' क.