________________
काव्यमाला ।
श्लेषोपचारयोर्यथा
'अस्थानगामिभिरलंकरणैरुपेता
भूयः पदस्खलितनिहुतिरप्रसन्ना । वाणीव कापि कुकवेर्मधुपानमत्ता
गेहान्निपातबहुलैव विनिर्जगाम ॥ निर्गमनस्य वाण्यामुपचारः, अन्यत्र श्लेषः ॥ क्वचित्त्वेषां मिश्रणेन । तत्र समासभेदानुगामित्वोपचाराणां यथा'मुहलघणविप्पइण्णं जलनिवहं भरिअणहमहीविअरम् ।
णइमुहपज्जहत्थं अप्पाण विणिग्गअं जसं व पिअन्तम् ॥ अत्र मुखरेत्यत्र समासभेदः, भृततमोमहीविवरत्वमनुगामि, विनिर्गतमिति यशस्युपचारः।
अनुगामित्वोपचारश्लेषाणां यथा'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजम्भां क्षणा
दायासं श्वसितोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाण्डुरद्युति मुखं देव्याः करिष्याम्यहम् ॥' अत्रोत्कलिकेति श्लेषः, विपाण्डुरेत्यत्र आयासेत्यत्र चानुगामित्वम्, प्रारब्धजृम्भामिति लतायामुपचारः ।
बहुव्रीहिः । अदृश्यपुण्डरीकेत्यर्थः ॥ 'मुखरघनविप्रकीर्ण जलनिवहं भृतसकलनभोमहीविवरम् । नदीमुखपर्यस्यमानमात्मनो विनिर्गतं यश इव पिबन्तम् ॥' सेतुकाव्ये समुद्रवर्णनम् । मुखरेतीति । मुखरैगर्जद्भिर्घनैर्मेधैर्वृष्टम् , पक्षे मुखरैर्बन्द्यादिभिर्घनं बहुकृत्वा वणितम् ॥ विनिर्गतमिति । निस्क्रमणाख्यस्य बहिःसंयोगजनककर्मणो मूर्तमात्रधर्मतया यशस्यसंभवात्प्रकाशे लाक्षणिकत्वादित्यर्थः ॥ उद्दामेति । दोहदबलात्पुष्पिता माधवीलतां दृष्ट्वा रत्नावल्यां वत्सराजस्योक्तिः । उद्दामा उद्गताश्च कलिकाः कोरका यस्याम् । पक्षे उद्दामा अतिशयवती उत्कलिका उत्कण्ठा यस्याः ॥ कोपेति ।