________________
अलंकारकौस्तुभः । समासभेदबिम्बप्रतिबिम्बभावयोर्यथा'वणदवमसिमइलग्गो रेहइ विझो घणेहि धवलेहिं ।
खीरोदमन्थणुच्छलिअदुद्धसित्तो व्व महुमहणो ॥' अत्र वनदवेत्यत्र समासभेदः, धवलघनदुग्धयोर्बिम्बप्रतिबिम्बभावः ॥ वस्तुप्रतिवस्तुभावश्लेषयोर्यथा मम'सुरसतरा हसितमुखी विभाति वरवर्णिनी नितराम् ।
उन्मीलितारविन्दा सरसीव विनिर्मितोत्कलिका ॥' अत्र बिम्बप्रतिबिम्बभावापन्नयोर्मुखारविन्दयोरेक एव धर्मो हसितोन्मीलितपदाभ्यां विशेषणतया निर्दिष्टः, प्रथमान्त्यविशेषणद्वये च श्लेषः ॥ समासभेदोपचारयोर्यथा मम'मालतीमुकुलकोमलदन्ता मत्तबर्हिकुलकेशकलापा ।
जीवयत्यसमसायकमेषा कामिनीव जलदागमलक्ष्मीः ॥' अत्र मालतीत्यादौ समासभेदः, जीवयतीत्युपचारः ॥ समासभेदवस्तुप्रतिवस्तुभावयोर्यथा मम'धनप्रसवसंकुला स्थगितशर्वरीवल्लभा
विराजति बलाहकागमनकालिकी द्यौरियम् । परं विहितगोचरीभवनपुण्डरीकच्छटा
___तमालदलमेचकावयवसंनिवेशेव भूः ॥' अत्र घनप्रसवेत्यादौ समासभेदः, चन्द्रपुण्डरीकयोर्बिम्बप्रतिबिम्बभावापन्नयोः स्थगितत्वं विहतगोचरीभवनत्वं चैकधर्म उक्तः ॥
मम् । समासभेदश्लेषयोर्यथा अत्रोत्तरार्धमेव प्रकृतोदाहरणम् । पूर्वार्धे मृणालवलययो. बिम्बप्रतिबिम्बभावस्यापि सत्त्वात् ॥ 'वनदवमसीमलिनाङ्गो राजति विन्ध्यो घनैर्धवलैः । क्षीरोदमन्थनोच्छलितदुग्धसिक्त इव मधुमथनः ॥[इति च्छाया।] जीवयतीत्युपचार इति । आत्मविशेषगुणजनकमनःसंयोगरूपमुख्यजीवनस्य तत्राभावादित्यर्थः ॥ घनप्रसवेति । घनानां मेघानां प्रसव उत्पत्तिः । पक्षे धनप्रसवो जलम् । विहितमनिषिद्धम् । गोचरीभवनं प्रत्यक्षोपहितत्वं यस्यास्तादृशी पुण्डरीकच्छटा यस्या इति बहुव्रीहिगर्भो