________________
काव्यमाला ।
अत्र संध्यातपेति समासभेदः, संक्षोभितेत्याद्यनुगामि । बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावयोर्यथा'इअ णिअमिअसुग्गीवो रामन्तेण पचलिओ पितामहतणओ ।
परिमट्ठमेरुसिहरो सूराभिमुहो व्व पलअधूमप्पीडो ॥' अत्र रामसूर्ययोबिम्बप्रतिबिम्बभावापन्नयोरेक एव धर्मोऽन्ताभिमुखशब्दाभ्यां निर्दिष्टः, सुग्रीवमेरुशिखरयोबिम्बप्रतिबिम्बभावश्च । श्लेषबिम्बप्रतिबिम्बभावयोर्यथा मम'संप्रकाशितबलाहकवृन्दो व्यञ्जयन्क्षणिकभावमनेहाः ।
हेतुभावमुपलम्भितसत्त्वो बोधिसत्त्व इव सत्वरमेति ॥' अत्र वर्षापले क्षणिकमा विद्युत्, तस्या आवो दीप्तिः । पक्षे क्षणिकभावः पदार्थानां प्रतिक्षणविनाशित्वमिति श्लेषः । मेघसत्त्वयोर्बिम्बप्रतिबिम्बभावश्च । उभयोर्यथाक्रमं विद्युत्क्षणिकत्वसाधकत्वात् । उपचारबिम्बप्रतिबिम्बभावयोर्यथा मम'नितान्तपारिप्लवतारतारके रसेन सा नर्तयति स्म लोचने ।
परिभ्रमद्गर्भगभृङ्गसंगते निशावसाने नलिनीव पङ्कजे ॥' अत्र तारकाभृङ्गाणां नेत्रपङ्कजानां रसप्रभावतयो(१)श्च बिम्बप्रतिबिम्बभावः । नर्तनं नेत्रे पद्मे चोपचरितम् । समासभेदश्लेषयोर्यथा'खुडिउप्पडिअमुणालं दहूण पिअं व सिढिलिअवलअं णलिणिम् ।
मुहुअरिमहुरुल्लावं महुमअअम्बं मुहं व घेप्पइ कमलम् ॥' अत्र मधुकरीमधुरोल्लापमिति समासभेदः, मधुमदाताभ्रमिति श्लेषः ।
संक्षोभितत्वं पूर्वावस्थावैलक्षण्यम् । तच्च विकसितोन्मर्दितत्वाभ्याम् । संध्यातप एव ताम्रधातुरिवेति दिनपक्षे । संध्यातपवत्ताम्रो रक्तो धातुगैरिकं सिन्दूरं चेति गजपक्षे । 'इति नियमितसुग्रीवो रामान्तेन प्रचलितः पितामहतनयः । परिमुष्टमेरुशिखरः सूर्याभिमुख इव प्रलयधूमोत्पीडः ॥' पितामहतनयो जाम्बवान् । उत्पीडः समूहः । जाम्बवडूमयोरुपमा । 'खण्डितोत्पतितमृणालां दृष्ट्वा प्रियामिव शिथिलितवलयां नलिनीम् । मधुकरीमधुरोल्लापं मधुमदतानं मुखमिव गृह्यते कमलम् ॥' सेतुकाव्ये शरद्वर्ण