________________
अलंकारकौस्तुभः ।
यथा
'अह गमिअ णिसासम गम्भीरत्तद्दिढटुअम्मि समुद्दे ।
रोसो राहववअणं उप्पाओ चन्दमण्डलं व विलग्गो ।' अत्र विलग्नत्वमनुगतम् । राघववदनचन्द्रमण्डलयोर्बिम्बप्रतिबिम्बभावः । अनुगामित्ववस्तुप्रतिवस्तुभावयोर्यथा'वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीभृतामाद्यः प्रणवश्छन्दसामिव ॥' अत्र मनुप्रणवयोरुपमायां छन्दोमहीभृतां बिम्बप्रतिबिम्बभावापन्नानामाद्यत्वं विशेषणतयोक्तम् । मनीषिमान्यत्वमुभयानुगतम् । अनुगामित्वश्लेषयोर्यथा'नाहूतापि पुरः पदं रचयति प्राप्तोपकण्ठं हठा
त्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते । वैवर्ण्य स्वरभङ्गमञ्चतितमा मन्दाक्षमन्दानना ___कष्टं भोः प्रतिभावतोऽप्यधिसभं वाणी नवोढायते ॥' अत्र पृष्ठेत्यादावनुगामित्वम्, पदमित्यादौ श्लेषः । अनुगामित्वोपचारयोर्यथा मम
'अतिसुकुमारः सौरभविशेषभरितोऽतिरमणीयः । . चुम्बति कपोलबिम्बं युवेव कर्णावतंसोऽस्याः ॥' अत्र सुकुमारेत्याद्यनुगामि, 'चुम्बति कपोल-' इत्यवतंसे उपचारः । अनुगामित्वसमासभेदयोर्यथा'संखोहिअकमलसरो संझाअवअम्बधातुकद्दमिअमुहो। ठाणप्फिडिओ व्व गओ रत्ति भमिऊण पडिणिउत्तो दिअहो ।'
तम् ॥ अथ गमयित्वा निशासमयं गम्भीरत्वदृढस्थिते समुद्रे । रोषो राघववदनं उत्पा. तश्चन्द्रमण्डलमिव विलग्नः ॥' सेतुबन्धाय समुद्रप्रार्थनार्थ श्रीरामे स्थिते समुद्रे किमप्यकृतवति इयमुक्तिः । राघववदनेति । प्रकृतत्वेन रोषस्यैवीपमेयत्वात्तेन चोपात्तस्यैवोपमानत्वादिति भावः । 'संक्षोभितकमलसरः संध्यातपताम्रधातुकर्दमितमुखः । स्थानभृष्ट इव गजो रात्रि भ्रमित्वा प्रतिनिवृत्तो दिवसः ॥' सेतुकाव्ये प्रभातवर्णनम् ।