________________
अलंकारकौस्तुभः ।
४३ उपचारसमासभेदश्लेषाणां यथा'सरए सरम्मि पहिआ जलाइ कन्दोट्टसुरहिगन्धाइं ।
धवलच्छाइ सअला पिअन्ति दइआण व मुहाई ॥' अत्र पिबन्तीति मुखपक्षे उपचारः, नीलोत्पलसुरभीति समासभेदः, 'धवलाच्छानि, धवलाणि' इत्यर्थकतया 'धवलच्छाइ' इत्यत्र श्लेषः ॥ अनुगामित्वबिम्बप्रतिबिम्बभावसमासभेदानां यथा मम'स्फुटनयनपङ्कजा सा स्वच्छमुखी मे मनः प्रसादयति ।
कुमुदाकरं शरदिव नवसमुदितशीतकिरणबिम्बा ॥' अत्र 'प्रसादयति' इत्यनुगामि, मुखचन्द्रयोर्बिम्बप्रतिबिम्बभावः, स्फुटनयन-' इति समासभेदः ॥
अतः परं ममतैद्विषये श्लोकाःअनुगामित्वसमासभेदश्लेषाणां यथा'तारामुक्ताहारा समुदञ्चितचन्द्ररुचिचर्चा ।
विकसितकैरवहासा ज्योत्स्नीव वधूवरं विधुनोति ॥' अत्र 'ज्वरं विधुनोति' इत्यनुगामि, 'तारा-' इत्यादौ 'विकसित-' इत्यादौ च समासभेदः । 'चन्द्र' इति श्लेषः ॥
उपचारबिम्बप्रतिबिम्बभावसमासभेदानां यथा'विजृम्भमाणोन्नतकोरकस्तनी सरोजिनीं चुम्बति वासरेश्वरः । समुल्लसत्कुङ्कुमपङ्कलोहितो युवा नवीनां वरवर्णिनीमिव ॥'
अत्र 'विजृम्भमाण-' इत्यत्र 'समुल्लसत्-' इत्यत्र च समासभेदः, सरोजिनीवरवर्णिन्योर्बिम्बप्रतिबिम्बभावः, 'चुम्बति' इति रविपक्षे उपचारः॥
देवीपरिगृहीतलतापेक्षया राजपरिगृहीतायास्तस्याः प्रथममेव पुष्पितत्वात् ॥ कन्दोई नीलोत्पले देशी। 'शरदि सरसि पथिका जलानि नीलोत्पलसुरभिगन्धानि । धवलाच्छानि(क्षाणि) सतृष्णाः पिबन्ति दयितानामिव मुखानि ॥' [इति च्छाया। धवलानि श्वेतव. र्णानि च तान्यच्छानि प्रसन्नानि चेति धवलाच्छानि । पक्षे-धवलाक्षाणि धवलनेत्राणि । मुखपक्ष इति । मुख्यपानस्य द्रवद्रव्य एव संभवादित्यर्थः ॥ भेदान्तराणां
१. 'अत्र' क.