________________
३८२
काव्यमाला ।
तत्कण्ठकाण्डपरिवर्तनकारणस्य मन्येऽस्य तेन वितनोति रुजं स उग्राम् ॥'
अत्र संरक्षणराहुसंबन्धवता चन्द्रेण खसंबन्धिराहुप्रतिपक्षकृष्णापकारः । अत्र प्रतिपक्षसाक्षात्संबन्धिन इति विशेषः ।
अत्र वदन्ति — हेतूत्प्रेक्षात इदमलंकारान्तरमयुक्तम् । सर्वत्र हेतुहेतुमद्भावप्रतीतेः । न चात्र हेतुनिश्चयः, उत्प्रेक्षायां तु संदेहमात्रमिति भेद इति वाच्यम् । व्यङ्गयहेतुत्प्रेक्षायामिवाद्यभावेन संभावनाविरहेण निश्चयसंभवेन तदुच्छेदापत्तेः । न चात्र प्रतिपक्षगतबलवत्त्वस्वगत दुर्बलत्वप्रतीत्या भेद इति वाच्यम् । तथापि हेतूत्प्रेक्षाविशेषत्वस्यैव संभवेन तदतिरिक्तस्वानौचित्यात् । पृथिवीभृतैव वैलक्षण्येन पटस्य पृथिव्यतिरिक्तत्वाभावात् इति ॥ तच्चिन्त्यम् । उत्प्रेक्षाविनिर्मुक्तविषयस्य दर्शितत्वादत्र तादृशहेतुनि - र्णयोदयाच्च । न चोत्प्रेक्षाविलयप्रसङ्गः । न हि इवादिशब्दाभावौ हेत्वनिर्णय प्रयोजकत्वेनाभिमतौ येोक्तदोषापत्तिः स्यात् । किं त्वत्र किंचिन्निष्ठकार्यताप्रतियोगिकं यत्कारणमुत्प्रेक्ष्यं तन्निष्ठकार्यतानिरूपितकारणस्याप्यभिधानेन पूर्वकारणनिर्णयः उत्प्रेक्षायां च तदभावान्न तन्निर्णय इति वैषम्यं स्फुटमेव ॥ नन्वेवम्—
'उन्मेषं यो मम न सहते जातिवैरी निशायामिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा - लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥'
इत्यत्रापि पद्मलक्ष्म्याश्चरणसंबन्धजनकत्वाभिमतहर्षस्यापि पद्मवैरिचन्द्रदर्पोपशमनरूपं कारणमुक्तमिति हेतुनिर्णयप्रसङ्ग इति चेत् ॥ मैवम् । तत्र हेतुनिर्णयसामग्र्यां सत्यामपि संभावनार्थकपदसमभिव्याहारेण तदनुदयात् । न चैवं तत्र मन्ये इति पदपरित्यागे व्ययोत्प्रेक्षानुपपत्तिः त्वद्रीत्या तत्र हेतुनिर्णयापत्तेः । एवं — 'हृत्तस्य - ' इत्युदाहृते ।