________________
अलंकारकौस्तुभः ।
३८१
अत्र रोमावलिवर्णने कामेन स्वदाहक वह्नयपकाराशक्त्या तज्जन्यधूमनिरोध उत्प्रेक्षितः । वह्निधूमयोर्जन्यजनकभावरूपः साक्षात्संबन्धः । शुद्धो यथा
'एकेनापाति लत्ता तव वपुषि परेणापि पीतः पिता ते भ्राता वान्येन शप्तस्त्रिभुवनतलतोऽन्येन निर्वासितासि । एकोऽयं धीरभूभृद्गणयति तृणवत्त्वां सरोजालये चेन्मातस्तज्जातिमात्रप्रणयिनि मयि मा कोपमेवं विदध्याः || ' अत्र साजात्यरूपः साक्षात्संबन्धः निषेधगम्यश्चायमलंकारः । द्वितीयं यथा ममैव
'कामेन भालनयनोपरि वैरभाजा प्रालेयशैलदुहितृप्रतिमानशीला । त्वं नीयसे कुसुमगात्रि शरव्यभावं कल्पान्तवह्निगततैक्ष्ण्यभृतामिषूणाम् ॥'
अत्र प्रतिपक्ष शिवस्य स्त्रीत्वेन संबन्धिन्या भवान्याः सादृश्येन संबन्धिन्या नायिकाया अपकार उक्तः ॥
यथा साक्षात्प्रतिपक्षेण प्रतिपक्षसंबन्धिनोऽपकारे तथा संबन्धसंबन्धिना स्वसंबन्धिप्रतिपक्षस्यापकारे एतद्बोध्यम् ।
यथा
'हृत्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥'
अत्र मुखेन चन्द्रस्य सादृश्यरूपः चन्द्रस्य कामेनोद्दीप्योद्दीपकभावरूपः संबन्धः कामेन हृदयस्य विरोधितारूपः इति परम्परा संबन्धिना मुखेन कामवैरिणो हृदयस्य संबन्धिनो मन्त्रणस्य भेदरूपोऽपकारः ॥ यथा वा ममैव रुक्मिणीपरिणये
‘दंष्ट्रान्तरालविषयत्वमुपेयिवासं स्वर्भानुरिन्दुममुचद्बहुशः पुरा यत् ।