________________
३७८
काव्यमाला। कारणजन्यत्वविशेषणे प्रयोजनाभावात् । त्वया च विषादनालंकारपार्थक्यदुराग्रहेणैव तस्य दत्तत्वात् । तस्मादिष्टार्थमुद्यतस्य तत्प्राप्यभावसहितानिष्टप्राप्तिरेव विषमभेदस्य शरीरम् । अनिष्टप्राप्तिश्च तत्कारणादन्यतो वेति नाग्रहः । विषमस्यैवैतद्भेदद्वयमिति तु न निवारयामः ॥ नन्वेवमननुरूपसंसर्गरूपविषमसामान्यलक्षणानुपपत्तिः इष्टसाधनत्वेन ज्ञायमानात्कारणात् अनिष्टोत्पत्तावेव तदुत्पाद्योत्पादकत्वसंसर्गस्याननुरूपत्वस्मरणादिति चेत् ॥ मैवम् । इष्टोद्यमानिष्टलाभयोरननुरूपत्वस्फुरणादेव तदुत्पत्तेरित्यलं पल्ल. वितेन ॥
यत्र च कार्यकारणभूतधर्माणां विरुद्धगुणक्रियाजनकत्वं तत्र तृतीयः । यथा'बुधजनकथा तथ्यैवेयं तनौ तनुजन्मनः
पितृशितिहरिच्छाकाद्याहारजः किल कालिमा । शमनयमुनाकोडैः कालैरितस्तमसांपिबा
दपि यदमलच्छायात्कायादभूयत भास्वतः ॥' यथा'यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं
स छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने ।
साहस्रैरपि पङ्गुरन्ध्रिभिरभिव्यक्तीभवन्भानुमान् ॥' अत्रोभयत्र समाधानगर्भोऽयं प्रथमे प्रयोजकान्तराधीनः, द्वितीये, कारणस्यापि कार्यगुणवत्त्वकल्पनाधीनश्च परिहार इति विशेषः ॥
शुद्धो यथा'कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटंतपनिष्ठुराक्षरा ॥
अत्र हंसीशैत्यमृदुत्वजननगम्यब्रह्महस्तशैत्यमृदुत्वविरुद्धं तज्जन्यलिपी उष्णत्वनैष्ठुर्यरूपं गुणद्वयमुक्तम् ।