________________
अलंकारकौस्तुभः । तत्र केवलानिष्टप्राप्तौ यथा'दिट्ठीअ ज ण दिट्ठो सरलसहावाइजं च णालविओ।
उअआरोजं ण कओ तं चिअ कलिअं छइल्लेहिं ।' अत्र नायकविषयकानुरागव्यञ्जकाभावत्वेन इष्टानां तददर्शनादीनामन्यनिष्ठतद्विषयकज्ञानरूपानिष्टप्राप्तिः । न चेयं विशेषोक्तिरिति वाच्यम् । अदर्शनादीनां लज्जादितोऽपि संभवेनाननुरागबोधहेतुत्वाभावात् तत्प्रकारेणोक्त्यभावाच्च । अदर्शनादौ सत्यपि आप्तवाक्यादिना तन्निर्णयोदयाच्चे. ति । यथा'निजांशुनिर्दग्धमदङ्गभस्मभिर्मूषा विधुर्वाञ्छति लाञ्छनोन्मृजाम् । त्वदास्यतां यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः ॥'
अत्र श्यामत्वरूपकलङ्कस्योक्तभस्मसंयोगेन नाशसंभवेऽप्यपरिहार्यपातकरूपकलकप्रतिलम्भः॥
यत्तु-अभीष्टार्थविरुद्धलाभो विषादालंकारः। यथा'तत्तव्यापतिमममानसतया मत्ते निवृत्ते सदा
चञ्चूकोटिविपाटितार्गल इतो यास्याम्यहं पञ्जरात् । इत्थं कीरवरे मनोरथमयं पीयूषमास्वादय
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥' न ह्यत्र विषमसंभवः । इष्टार्थकारणप्रयोगाभावात् । इष्टार्थप्रयुक्तका- . रणेन सहोत्पाद्योत्पादकभावलक्षणसंसर्गाननुरूपत्वस्य तच्छरीरत्वादिति, तच्चिन्त्यम् । मोक्षरूपेष्टकारणस्येच्छाया इहापि प्रयोगात् ॥ अथेच्छायाः प्रयोगेऽपि अनिष्टं न तज्जन्यमिति चेत्, किं तत् । इष्टसाधनत्वेन निश्चितात्कारणादनिष्टकार्योत्पत्तिरिति विषमस्वभावाभाव इति चेत् ॥ कुतः इष्टप्राप्त्यभावविशिष्टानिष्टप्राप्तेरेव तत्स्वरूपत्वात् । अनिष्टे इष्टार्थप्रयुक्त............................................।।
..........................................॥ इति च्छाया। २. 'दीनां लापेप्यन्य' ख.