________________
अलंकारकौस्तुभः ।
३७५ 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीताश्रुतिवल
करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' इत्यत्रापि तथैव ॥ एतेन
'अरण्यानी केयं धृतकनकसूत्रः क्व स मृगः ___ व मुक्ताहारोऽयं क च स पतगः केयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क च वयं
__ खमाकूतं धाता किमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वस्वकारोदाहरणमपि प्रत्युक्तमिति, तदसत् । तत्राप्यनुपपत्तेः कविप्रतिमाधीनत्वात् । शुक्तिमुक्तयोः संबन्धानुपपत्तेर्लोकप्रसिद्धिविरहात् । प्रत्युत तत्संबन्धस्यैव प्रसिद्धत्वात् । एवमुत्तरत्राप्यवधेयम् ॥
यत्रेष्टार्थानवाप्तिसहितानिष्टलाभः स द्वितीयः । यथा'कन्या तस्य वधाय या विषमयी गूढप्रयुक्ता मया
दैवात्पर्वतकस्तया विनिहतो यस्तस्य राज्यार्धभाक् । ये शस्त्रेषु विषेषु च प्रणिहितास्तैरेव ते घातिता
मौर्यस्यैव फलन्ति पश्य विविधश्रेयांसि मे नीतयः॥ अत्र चन्द्रगुप्तवधार्थ राक्षसेन कृतैरुपायैर्न केवलं तद्वधाभावमात्रं किं तु पर्वतकादिवधरूपानिष्टमपि ॥ यथा वा'अयं दुग्धाम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिर्दुग्धोपनयनधिया गोपतनयः । १. 'दशवदननीता कररदैः परीता रक्षोभिः श्रयति कृपणां कामपि दशाम् ।' ख. २. 'कल्पितत्वात् ख.