________________
३७४
यथा वा
काव्यमाला ।
'दोःसंदोहवशंवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणः प्रचण्डचरितो देवः कुबेरानुजः ।
यत्रायं स्वयमस्ति सेयममरावत्यापि वन्द्या पुरी
ता'
नीला मर्कटकेन कामपि दशां धिग्दैवमावश्यकम् ॥' प्रथमे तु स्वरूपेणैव संबन्धानुपपत्तिः, अत्र तु लङ्काया मर्कटजन्यदुर्दशासंबन्धानुपपत्तिरपि रावणस्य सत्त्वोत्थापिता । तदधिष्ठानेनैव तदनुपपतेर्भानादिति शेषः ॥
'कथं सर्वगुणैर्हीींना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥'
एतेन
'असंभवोऽर्थनिष्पत्तेरसंभाव्य [त्व]वर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥' इत्यसंभवस्यालंकारान्तरत्वमपास्तम् ॥
एतेनैव – इष्टसिद्ध्यर्थमिष्टैषिणा क्रियमाणमिष्टप्रतिकूलार्थाचरणं विचित्रालंकारः ।
यथा
----
'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा
नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः
सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥' इत्यपि परास्तम् । उन्मुक्तिपाशयोः कार्यकारणभावानुपपत्तिसत्त्वात् ॥ यत्तु [रसगङ्गाधरे] —
1
'क शुक्तयः क मुक्ता वा क्क पङ्कः क्व च पङ्कजम् । क्क मृगः क च कस्तूरी धिग्विधातुर्विदग्धताम् ॥' इत्यादौ नायमलंकारः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारायोगात् । कविप्रतिभामात्रकल्पितानामर्थानामलंकारत्वात् ॥ एवम् —