________________
अलंकारकौस्तुभः ।
यथा
'नलेन भायाः शशिना निशैव त्वया स भायान्निशया शशीव । पुनः पुनस्तद्युगयुग्वधाता योग्यामुपास्ते नु युवां युयुक्षुः ॥'
यथा वा
'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूवं साधारणो भूषणभूष्यभावः ॥' क्वचिदुत्प्रेक्षा संकीर्णमपि यथा
'चन्दुज्जाए ण मए ण चन्दाअवो णु धट्टिअप्पसनो । दोहिं वि ते हिअअणो मअणेण णु दोवि तेणिआ अइभूमिम् ॥' क्वचिदुपमासंकीर्णो यथा
➖➖➖
'इतरेतरशोभायै संयोगो युवयोः किल । नवचन्द्रकलाशर्वजटामुकुटयोरिव ॥'
क्वचित्सोपकारं संकीर्णपरस्परोपकारस्वरूपमपि यथा'उद्रच्छो पिअइ जलं जह जह विरलङ्गुली विर्र पहिओ । पावालिआ वि तह तह धारं तणुअं वि तणुएइ ।'
३६१
―――
... |
अत्र पान्थमुखावलोकनोत्सुकायाः प्रपापालिकायाः खाङ्गुलीविरलीकरणेन पथिकेनोपकारः कृतः तेनैव च प्रपापालिकामुखावलोकनस्यापि सिद्ध्या पथिकोपकारस्यापि सिद्धिः । एवं प्रपापालिकाकर्तृकधारातनूकरणेन पथिकोपकारस्येव प्रपापालिकोपकारस्यापि, पथिकेन प्रपापालिकामुखावलो - कनवत् तया पथिकमुखावलोकनस्यापि सिद्धेरिति दीक्षिताः ॥
रसगङ्गाधरकृतस्तु–खव्यधिकरणव्यापारसाध्यस्यैव परोपकारस्य चमत्काराधायकत्वं न तु खसमानाधिकरणव्यापारसाध्यस्यापि तुषारशीतली
१. 'परस्परं त' ख.
.......
२.
॥' [ इति छाया ।]
३. 'ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः ।
प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥' [गाथा ० २।६१]
४६