________________
३६२
काव्यमाला ।
करणवत् खव्यापारसाध्यस्योपकारस्याचमत्कारकत्वादतो नेदमन्योन्यान्तर
मित्याहुः ॥
उत्तरं निरूपयति—
उत्तरमात्रात्मनोन्नयने स्यादुत्तरं नाम ।
यत्र प्रतिवाक्यश्रवणादेव प्रश्नवाक्यं कल्प्यते तदुत्तरं नामालंकारः ।
यथा
इत्यन्योन्यम् ।
-
'अण्णेसु पहिअ पुच्छसु वाहकुडुम्बे पुसिअचम्माई | अहं वाहजुवाणो हरिणेसु धणुं ण णामेति ॥'
अत्रान्येषु व्याधकुटुम्बेषु पृषन्मृगचर्माणि पृच्छेति उत्तरवाक्येन 'पृष - चर्माणि ममापेक्ष्यन्ते तानि सन्ति नेगे' इति पथिकप्रश्नवाक्यं कल्प्यते । न चेदं काव्यलिङ्गमेव उत्तरस्य प्रश्नं प्रति हेतुत्वादिति वाच्यम् । उत्तरस्य प्रश्नजनकत्वाभावात् । प्रमाणान्तरनिर्ज्ञातार्थोपपादकस्यैतद्विषयत्वव्यवस्थापनाच ॥ न चैवमप्यनुमानेऽन्तर्भावोऽस्तु यद्यदुत्तरं तत्तत्प्रश्नपूर्वकमिति व्याप्तिबलेनोत्तरस्य प्रश्नज्ञापकत्वादिति वाच्यम् । साध्यसाधनयोः सामानाधिकरण्य एवानुमानप्रवृत्तेः । महानसे धूमदर्शनेन पर्वतीयवचनुमितेरभावात् । इह च प्रश्नोत्तरयोर्व्यधिकरणत्वादित्यतिरिक्तत्वमेवोचितम् ॥ ननु एतदुत्तराव्यवहितपूर्वकाल: प्रश्नवाक्याधिकरणमुत्तराव्यवहितपूर्वकालत्वान्मदुत्तराव्यवहितपूर्वकालवदित्यनुमित्यास्यान्यथा सिद्धिः स्यादिति चेत्, न । यत्किचित्प्रश्नवाक्याधिकरणत्वसिद्धया प्रश्नान्तरेणार्थान्तरत्वात् । प्रश्नोत्तरं किंचित्कालविलम्बेनोत्तरोक्तिस्थले व्यभिचाराच्च । न च तत्प्रश्नविषयजिज्ञासानिवर्तकभङ्गयन्तराव्यवहितपूर्वकत्वं विवक्षितम् इति वाच्यम् । तथापि प्रश्नस्य धर्मिविशेषनिष्ठत्वप्रतीत्यनुपपत्तेः । अथैवं ' तदुत्तरवाक्यजन्यबोधवत्त्वप्रकारकेच्छाविशेष्योऽयम् एतत्पूर्वकालावच्छिन्नप्रश्नकर्ता उत्त
१. ' अन्येषु पथिक पृच्छ व्याधकपुत्रेषु ( कुटुम्बेषु) पृषतचर्माणि । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ ' [ गाथा० ७/२९] २. 'न वा' इति तूचितम्.