SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३६.० काव्यमाला यथा [वा ] - 'दानेन पाणिर्न तु कङ्कणेन श्रोत्रं श्रुतेनैव न कुण्डलेन । विभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥' अत्र पाण्यादिशोभासाधनत्वाभावाश्रयाः कङ्कणादयो वाच्याः । पूर्वमुपमागर्भम् इदं तु शुद्धमिति विशेषः ॥ केचित्तु — व्यावृत्तेरर्थगम्यत्व एवायमलंकारः अन्यथा तु शुद्धपरिसंख्यामात्रम् । अतो व्यङ्गचे व्यवच्छेदे भेदद्वयमेवेति वदन्ति । 'पञ्च पञ्च नखा भक्ष्याः' इत्यादीनां त्वचमत्कारत्वान्नालंकारतेति ध्येयम् । इति परिसंख्या । कारणमालां निरूपयति कारणमाला पूर्वे पूर्वे कार्ये यथोत्तरं हेतौ । प्रथमं कार्यत्वान्नस्य पश्चादन्यं प्रति हेतुत्वमित्येवंरीत्या यत्र कार्यकारणभावा वर्ण्यन्ते सा कारणमाला | यथा 'दारिद्याद्धिमेति परिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते । निर्विण्णः शुचमेति शोक विहतो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥' अत्र दारिद्र्यस्य लज्जानाशे तस्य तेजोनाशे तस्य परिभवे हेतुत्वमिति रीत्या मालात्वमेव यथोत्तरोत्तरस्य पूर्वं पूर्व प्रति हेतुत्वमुच्यते तत्रापीयम् । अन्योन्यं निरूपयति इति कारणमाला | अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे । स्पष्टोऽर्थः । १. 'कारणमाला प्रोक्ता पूर्वे पूर्वे यथोत्तरं हेतौ' इत्यलंकारमुक्तावल्यां पाठः:
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy