SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३१९ वक्षित्वा नियमोऽपि परिसंख्यापदेनोच्यते । अत एव – 'पञ्च पञ्च नखा भक्ष्याः' इति परिसंख्याया नियमपदेनोक्तिर्महाभाष्येऽपि दृश्यते । तत्र प्रश्नपूर्वकाभिधाने व्यङ्गचे व्यवच्छेदे यथा मम - 'कुर्यात्कुत्र निजेष्टसाधनमतिः साधीयसां संगमे किं भूयः परिभावनीयमसकृच्छास्त्रं प्रबोधावहम् । चित्तं कुत्र निवेश्यमन्यविषयादाकृष्य चण्डीश्वरे यत्नः कुत्र विधेय उत्कटतरः संसारतो मोक्षणे ॥' अत्र स्त्रीसंगमादिव्यवच्छेदो व्यङ्गयः । तत्रैव वाच्ये व्यवच्छेदे यथा ममैव‘दोषोद्भावनतः व याति गुरुतां वादेषु नो लौकिके चाञ्चल्यं क्व गुणाय सारसदृशां नेत्रेषु नो चेतसि । कुत्र श्लाघ्यतरं शिरः प्रणमनं देवेषु नैवाहिते वाग्भङ्गः क्व सुखायते प्रियजना श्लेषेषु नो संसदि ॥' अत्र लौकिकव्यवहारादिव्यवच्छेदा वाच्याः । अप्रश्नपूर्वकाभिधाने आद्यो भेदो यथा 'सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणें । तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो ॥' अत्र हस्तस्थित एवार्थो न त्वन्याधीन इत्यादिव्यवच्छेदो व्यङ्गयः । तत्रैव द्वितीयो यथा 'दीर्घा चन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः खेदमुचा पयोधरयुगेनार्धो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥' अत्र एवकारव्यवच्छेद्या इन्दीवराद्याः शब्दाः । १. 'तया' ख. २. - 'सोऽर्थो यो हस्ते तन्मित्रं यन्निरन्तरं व्यसने । तद्रूपं यत्र गुणास्तद्विज्ञानं यस्मिन्धर्मः ॥ [ गाथा० ३।५१ ]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy