SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५८ काव्यमाला। यथा वा'मा गच्छेः कुसुमानि चेतुमथ चेदश्चेर्न तां मालती निःशङ्कं यदधः कपोततरुणी घुत्कारमभ्यस्यति । व्यक्तं तत्र निरन्तरं मधुलिहो माध्वीकपानोत्सुका दुर्वाराः कति नैव दष्टुमधरं धावन्ति वामाशयाः ॥' उभयत्रापि नखदन्तक्षतादिदर्शनेन खव्यभिचारप्रवादप्राकट्यमाशङ्कय तदनुमितिलिङ्गभूता नखक्षतादय उक्तप्रकारेण निगृहिताः । यत्तु'दम्पत्योर्निशि जल्पतोहशुकेनाकर्णितं यद्वच स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यैव तारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चोः पुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥' इत्यत्र युक्तिरलंकारः । व्याजोक्तौ वचसा गोपनम् , इह तु क्रियया, इति द्वयोर्भेद इति । तन्न । व्याजोक्तिलक्षणस्योभयसाधारण्यात् । तत्रोक्तिनिवेशस्य गौरवपराहतत्वात् । अन्यथा प्रकारान्तरेण गोपनस्थलेऽलंकारान्तरप्रसङ्गात् । तत्राप्युक्तक्रियान्यत्वनिवेशस्य सुवचत्वादिति दिक् ॥ इति व्याजोक्तिः। परिसंख्यां निरूपयति पृष्टमपृष्टं चोक्तं यद्वयङ्गयं वापि वाच्यं वा । फलतीतरव्यपोहं परिसंख्या सा तु संख्याता ॥१॥ यद्वस्त्वभिहितमन्यव्यवच्छेदं फलति सा परिसंख्योक्तिलक्षणेति । अ. भिधानं च द्वेधा । प्रश्नपूर्वकं तद्भिन्नं च । व्यवच्छेदोऽपि द्विविधः । व्यङ्गयो वाच्यश्चेति चत्वारो भेदा इत्यर्थः ॥ यद्यपि पाक्षिकप्राप्तार्थनिवतको नियमः नित्यप्राप्तविषयकान्यव्यावृत्तिफलकस्तु परिसंख्येति मीमांसकमर्यादा, तथाप्यसौ पाक्षिक[त्व] नित्यत्वविशेषणमत्र प्रयोजनाभावादवि १. 'लम्बिनि' ख. २. 'प्रकरोति'ख. ३. अस्य लक्षणं तु–'युक्तिः परातिसंख्यानं क्रियया मर्मगुप्तये' इति खयमलंकारमुक्तावल्या दर्शितम्. ४. 'अविवक्षितत्वात्' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy