________________
अलंकारकौस्तुभः ।
३६७ प्राप्तुं तवाधररुचामवलोकनेन
__ नालं सहस्रनयनः स वृषापि तृप्तिम् ॥' अत्र सहस्रनयनेति दर्शनसामर्थ्यव्यञ्जनेऽपि तस्य नरेन्द्रपरत्वं वृषपदपौनरुक्त्यापत्तेः । अतश्च ।
'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥' इत्यत्र पिनाकपाणिपदेनायुधदृढत्वमात्रप्रतीत्या पुनर्हरपदप्रयोगवत् कुसुमायुधपदेन तदसारत्वप्रतीत्या स्मरवाचकपदप्रयोगाभावादनुपपत्तिमाशङ्कय तत्राप्युत्तमपुरुषाक्षिप्ताहंपदस्य स्मरवाचकत्वमस्त्येवेति साहित्यचि. न्तामणिकारोक्तं न नियमाभिप्रायकमिति खयमेव दीक्षितैर्वृत्तिवार्तिके प्र. तिपादितम् । तस्मात् ‘फणीन्द्र-'इत्यादौ फणीन्द्रत्वाक्षिप्तसहस्रमुखत्वमेव प्रकृतोपकारकमतो न विशेषणसाभिप्रायत्वक्षतिरिति सिद्धम् । अयं तु विशेष:-क्वचिद्विशेषणं साक्षादेव प्रकृतोपकारकं क्वचित्तु प्रकृतोपकारकमर्थान्तरमाक्षिप्येति विशेषणपदमत्र संसर्गातिरिक्तविषयपरम्, तेन विशेप्यविशेषणोभयसाभिप्रायत्वेऽपि परिकर एवेति त्वस्माकं यविष्ठभातुरुमापतेः पक्ष इत्यलं भूयसा ॥
इति परिकरः। व्याजोक्तिं निरूपयति
व्याजोक्तिर्विशदीभवदर्थस्यापहृतिमिषतः। अप्रकाश्यस्यार्थस्य कथंचिद्विभावनप्रसङ्गे सति केनचित्कैतवेन तदपह्नवो व्याजोक्तिरित्यर्थः । यथा'श्वश्रूः क्रुध्यतु विद्विषन्तु सुहृदो निन्दन्तु वा यातर
स्तस्मिन्कि तु न मन्दिरे सखि पुनः खापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमातन्वती ___ मार्जारी नखरैः खरैः कृतवती कां कां न मे दुर्दशाम् ॥