________________
अलंकारकास्तुभैः।
३५१ द्वितीयपर्यायस्य आयो भेदो यथा'अवहत्थिऊण सहिजम्पिआइँ जाणं कए ण रमिओ सि ।
एआई ताई सोक्खाइँ संसओ जेहिं जीअस्स ॥' अत्र नायकसङ्गजन्यसौख्यानां प्रथममिच्छाविषयत्वे पश्चाच्च जीवितसंशयहेतुत्वे प्रयोजकानभिधानम् । द्वितीयो यथा'विरहे विसं व विसमा अमअमआ होइ संगमे अहिअम् ।
किं विहिणा सम विअ दोहिं वि पिआ विणिम्मिअआ ।। यथा वा'वैडजक्खो जो मह सीसअम्मि दिण्णो सहि जुआणेहिं ।
तं चिअ एहिं पणमामि हअजरे होहि संतुट्ठा ॥ अत्राद्ये एकस्या एव नायिकाया वैषम्यशैत्यरूपे कार्ये क्रमेण विषामृतनिर्मितत्वरूपं प्रयोजकद्वयम् । द्वितीये च वटस्थितयक्षप्रतिमाया असत्यास्तारुण्यकालेनादृतापि पश्चात्तस्या एव नमस्कार्यत्वे जरारूपं च प्रयोजकं निर्दिष्टम् ।
यथा वा'पढमाणिआहि सुइरं जे जीविअसंसअम्मि वि परिच्छूडा । ते चिअ अहिमुहणिअहा सुरबन्दीहि अहिसारिआ रअणिअरा ॥'
अत्र प्रथममनाहतानामपि राक्षसानां सुरबन्दीभिः खाकारे रणहतत्वं हेतुरुक्तम् । १. 'अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि ।
एतानि तानि सौख्यानि संशयो यैजीवस्य ॥' [गाथा० २।५०] २. 'विरहे विषमिव विषमामृतमया भवति संगमेऽधिकम् ।
कि विधिना सममेव द्वाभ्यामपि प्रिया विनिर्मिता ॥' [गाथा० ३।३५] ३. 'वटयक्षो यो मम शीर्षे दत्तो सखि युवभिः ।
तमेवेदानी प्रणमामि हतजरे भव संतुष्टा ॥' गाथा० ४।७२] ४. 'प्रथमानीताभिः सुचिरं ये जीवितसंशयेऽपि परिक्षिप्ताः ।
त एवाभिमुखनिहिताः सुरबन्दीभिरभिसारिता रजनीचराः ॥[सेतु०१३।१७]