________________
३१०
काव्यमाला |
क्वचिदर्थगम्यं यथा
'मौनं मयूरीषु नदीषु कायै विपाण्डुरत्वं च बलाहकेषु । शरद्यभीष्टागमनिर्वृताभिर्न्यासीकृतानीव वियोगिनीभिः ॥' अत्र मौनादयः प्रथमं विरहिणीषु स्थिताः ततो मयूर्यादिष्विति एकस्यानैकत्रावस्थानबुद्धिः ।
प्रथममेकधर्मनिष्ठानां बहूनां पश्चादनेकधर्मनिष्ठत्वमप्यत्र विशेषो बोध्यः । यथा श्रीरुद्रदेवानाम् —
'प्रागेकत्र निषेवितः सुकृतिना लावण्यपुञ्जश्चिरं
यः कालेन स एव हा विशकलीभूतः समालोक्यते ।
कापि क्वापि घनालिखञ्जनशरच्चन्द्रप्रवालस्फुर
न्मुक्ताकम्बुमृणालहेमकलशीरम्भास्थलाजादिषु ॥'
अत्र कालस्य विशकलत्वमात्रे प्रयोजकत्वम् । अत्र प्रयोजकानभिधानं स्पष्टम् ।
तदभिधाने स्पष्टं यथा—
'प्राचीं वासकसज्जिकामुपगते भानौ दिशां वल्लभे पश्यैता रुचयः पतङ्गदृषदामामेयनाडींधमाः । लोकस्य क्षणदा निरङ्कशरसौ संभोगनिद्रागमौ कोकस्तोम कुमुद्वतीविपिनयोर्निक्षेपमातन्वते ||' अत्र रात्रावयत्रस्थयोः संभोगनिद्रयोस्तत्परित्यागेन च कुमुद्वतीवृत्तित्वमुक्तम्, सूर्यकिरणरूपप्रयोजकाभिधानं च ।
पूर्वापरित्यागेन यथा
'कहँ सा सोहग्गगुणं मए समं वहइ णिग्घिण तुमम्मि ।
जीअ हरिज्जइ गोत्तं हरिऊण अ दिज्जए मज्झ ॥'
अत्र गोत्रस्खलन कुपिताया मानिन्या नायकं प्रत्युक्तौ अन्यत्र स्थितस्य
नाम्नोऽन्यत्र वृत्तौ नायकरूपप्रयोजकाभिधानम् ।
१.
'कथं सा सौभाग्यगुणं मया समं वहति निर्घृण त्वयि ।
यस्य हियते नाम हृत्वा च दीयते मह्यम् ॥' [ गाथा० ५/५२]