________________
३१२
काव्यमाला ।
यत्तु —
'प्रथमं चुम्बितचरणा जङ्घानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाज्जशोभायाम् ॥' इत्यत्र भावनायाः पूर्वपूर्वविषयत्वत्यागस्य अविवक्षितत्वात् क्रमालंकारोऽप्यतिरिक्त इति । तच्चिन्त्यम् ॥
इति पर्याय: ।
अनुमानं निरूपयति
अनुमानं व्याप्यबलाव्यापकधीर्धर्मिनिष्ठा स्यात् ।
अव्यभिचरितसामानाधिकरण्यरूपव्याप्तिविशिष्टस्य साधनस्य दर्शनात् । धर्मिणि पक्षे तनिष्ठात्यन्ताभावाप्रतियोगित्वरूपव्यापकत्वविशिष्टस्य साध्यस्य यत् ज्ञानं तदनुमानमित्यर्थः । अत्रानुमितिरेवानुमानपदेनोच्यते । तस्या एव चमत्कारजनकत्वेनालंकारत्वात्तां विना परामर्षमात्रेण प्रकृतानुकूलार्थ - सिद्धिविरहात् । व्याप्तिश्चात्र पारमार्थिकी कविकल्पिता च ।
सा यथा
"जं घोअञ्जणसोणलोअणजुअं लग्गालअग्गं मुहं हत्थालम्बिदकेसपल्लवचए दोल्लन्ति जं बिन्दुणो । जं एक्कं सिचअञ्चलं णिवसिअं तं ण्हाणकेलिट्ठिआ आणीदा इमन्भुदेकजणणी जोईसरेणामुणा ||' इयं भैरवानन्देनाकर्षणविद्यया समानीतां कर्पूरमञ्जरीमालोक्य राज्ञ उक्तिः । अत्र धौताञ्जनत्वशोणनयनत्वादिहेतुना तस्या आकर्षणात्पूर्वजलकेलिस्थितत्वं साध्यम् । तथा च प्रयोगः । इयं नायिका, एतदव्यवहितपूर्वकाले कृतस्नाना, तदसाधारणचिह्नत्वात् इति । तथाहि नेत्रारुण्यं
"
'यद्धौताअनशोणलोचनयुगं लग्नालका मुखं
हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः ।
यदेकं सिचयाश्चलं निवसितं तत्स्नान केलिस्थिता आनीतेयमद्भुतैकजननी योगीश्वरेणामुना ॥' [कर्पूर० १२६