________________
૨૪૨
काव्यमाला ।
अचिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा - मूढानां भवति विफलप्रेरणश्वर्णमुष्टिः ॥'
यथा च
' म्लायन्मौलिरुचः कदन्नकणिकाकुक्षिभरा भिक्षवो ये केऽपि क्षितिरामकामनृपते युष्मद्यशोगोचराः ।
तत्तत्कान्तकुटुम्बिनीश्रुतिनटत्ताटङ्करत्नाङ्कुर
ज्योतिर्भिर्जटिलीभवन्ति भवने का वा न दिग्भित्तयः ॥'
द्वितीयं यथा
'वेलमाणम्मि महुमहे जत्थ अ पाउच्छलन्तरअणुज्जोअम् । विअर्ड फणपब्भारं गाढभरुत्ताणिअं णिमेइ अणन्तो ।' अत्र सुवेलपर्वतस्य अनन्तफणप्राग्भाराश्रयत्वोक्त्या वर्णनीये सुवेले महतोऽनन्तस्याङ्गत्वात् सुवेलोत्कर्षप्रतीतिः । न चानन्तविषयकभावी चमत्कारः । तस्याङ्गत्वेन तदभावात् । अत्र च वस्तुप्रणय इति सामान्यत उक्त्या शौर्यादिसमुत्कर्षवर्णनोदय्ययमेवालंकारः ।
यथा
-
-
'अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतवस्तुवर्णनविधौ व्यग्राः कवीनां गिरः । देव त्वत्प्रकटप्रतापदहनज्वालावलीशोषिताः
सर्वे वारिधयस्तवारिवनिताबाष्पाम्बुभिः पूरिताः ॥'
यथा वा मम -
'ब्रह्माण्डं यातयामं बहुभिरपि चिरादीश्वरैर्भुक्तमुक्तं
विज्ञाय खोपभोगास्पदपथपथिकव्यूहतो बाह्यभूतम् । प्रोद्यत्प्रौढप्रतापज्वलनसमुदितज्वालमालाकलापै
स्तं कृत्वा समस्तं समजनि भवता नूतनं पाकतस्तत् ॥'
१. 'वलमाने मधुमथने यत्र च पादोच्छलद्रत्नोद्द्योतम् ।
विकटं फणप्राग्भारं गाढभरोत्तानितं नियोजयत्यनन्त: ॥ [सेतु० ९८९]