________________
अलंकारकौस्तुभः । एतेनात्युक्तेः पृथगलंकारत्वम्, संपदुत्कर्षे उपात्तम् । शौर्योत्कर्षेत्युक्तिरिति भेदकथनं च परास्तम् । तत्तदनन्तोत्कर्षकथनेनानन्तालंकारसिद्धत्वात् ॥
इत्युदात्तम् । समुच्चयं निरूपयति
एकस्मिन्सति हेतौ हेत्वन्तरगीः समुच्चयः कथितः । प्रकृतकार्यनिर्वाहके सत्यपि यत्र खलेकपोतन्यायेन कारणान्तराणामपि तत्कार्यसाधकतयोपादानं समुच्चय इत्यर्थः । अत एव नेतरहेतूपादानवैयर्थ्यम् । युगपदेव तत्रावतारेण केन कस्य वैयर्थ्यमित्यनवधारणात् ।
ननु हेतूक्तिरूपात्काव्यलिङ्गात्कुतोऽस्य भेद इति चेत्, न । तत्र हेतुतामात्रं विवक्षितं न तु गुणत्वप्राधान्यम् । एकत्वानेकत्वं वा, इह त्वेकस्य हेतोर्मुख्यत्वम्, अन्येषां गुणत्वं हेत्वनेकत्वं च विवक्षितमिति । यथा'आयाता मधुयामिनी स्मरशरक्रीडाभरो दुर्भरः
प्राणेशोऽप्यतिदूरलचितपथः साध्वीप्रमा(वा)दो महान् । एषोऽपि स्मरकालकूटकवलक्लिष्टो मदर्थे युवा
नो जाने मम दुर्विपाकविटपी कीहक्फलं धास्यति ॥ इह वसन्तनिशाया अनुपपत्तिहेत्वसंभवेऽप्यन्येषामुपादानम् । यथा वा मम शृङ्गारमञ्जरीनाटके
'मुद्धत्तणं पढमसाहसउज्झमोज
दुक्खं विओअजणिदं परमं तदा अ । रत्तीवणंअइ घरं तिमिरं अ रन्धं
ठाविजए सहि कहं णु पजं धराहे ॥' 'मुग्धत्वं प्रथमसाहसोद्यमोद्य
हुःखं वियोगजनितं परमं तदा च । रात्री..... ति गृहं तिमिरं च रन्ध्र स्थाप्यते सखि कथं नु..........॥' [इति च्छाया।]