________________
अलंकारकौस्तुभः ।
३४५
नस्य योगार्थत्वे दोषाभावात् । एवं च वासुदेवत्वप्रकारेण व्यङ्ग्यत्वेऽपि प्रकारान्तरेण वाच्यत्वमुपगूह्यत एव । एवम् - 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे ।'
इत्यत्र प्रकारान्तरेणाभिधानेऽपि सहसैव भगवत्त्वप्रकारकबोधोदयान्नातिप्रसङ्गः । एवम् —
'राहुस्त्री कुचनैष्फल्यकारिणे हरये नमः ।'
इत्यत्र राहुशिरश्छेदकारित्वस्य व्यङ्ग्यत्वेऽपि न पर्यायोक्तम् । हरिशब्दसमभिव्याहारसत्त्वात् । किं च ' लोकं पश्यति यस्याङ्गिः -' इत्यादौ गूढपात्त्वादिकं वाच्यप्रायमेवेति पतञ्जलित्वाद्यसाधारणरूपेण व्यङ्ग्यत्वं त्वयाप्यनुमन्तव्यमेवेति सर्वत्रापि तदीयामेव व्यङ्ग्यतामादाय पर्यायोक्तमित्यपि किं न स्यात् । एवं 'वन्दे देवं -' इत्यादौ भगवद्बाहानां व्यासा - दिविनेयत्वाभिधानेन वेदत्वादिरूपेणैव व्यङ्ग्यत्वमावश्यकमिति दिक् ।
यत्तु — इति दर्पणादौ आनुकूल्यमलंकारान्तरमुक्तम्, तदत्रैवान्तर्भावादुपे
'आनुकूल्यप्रातिकूल्यमानुकूल्यानुबन्धि चेत् ।'
क्ष्यम् । एवम्—
'यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां हियमापदागः । स्वयंवरस्थानजयस्त्वमस्य बधान कण्ठं वरणस्रजाशु ॥' इत्यादावपि इदमेव ज्ञेयम् ॥
इति पर्यायोक्तम् ।
उदात्तं निरूपयति
वस्तुप्रचय उदात्तं महतामङ्गत्ववचनं वा । संपदादिवस्त्वतिशयवर्णनमुदात्तम् । उत्कृष्टानां वर्णनीयनिष्ठाङ्गित्वप्रतियोगित्वमङ्गत्वं च यत्रोच्यते तदपीत्यर्थः ।
यथा
'नीवीबन्धोच्छ्रसनशिथिलं यत्र पक्ष्माङ्गनानां वासः कायादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
૪૪