________________
३४२
काव्यमाला।
घटघटत्वयोर्विशकलितत्वेन सविकल्पकत्वेन तयोर्वैशिष्टयेन प्रतीतिरिति तयोर्भेद उपपद्यते तद्वदत्रापीति न दोषः ॥
सर्वखकारस्तु-व्यङ्गयस्यैवाभिधेयत्वायोगात् गम्यस्यैव भङ्गयन्तरेणाभिधानं पर्यायोक्तमिति लक्षणानुपपत्तिमाशङ्कय भङ्गयन्तरेण कार्यादिद्वारेणाभिधानमित्यस्यार्थः । यथा'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥ अत्र राहुशिरश्छेदकारीति व्यङ्गयम् । राहुवधूसंबन्धिरतोत्सवनिष्ठचुम्बनमात्रावशिष्टनिर्मातृत्वेन रूपेणाभिहितम् । भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिधेयत्वाच्च न व्यङ्गयत्वम् । एवम्
'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता ।
मदेनैरावणमुखे मानेन हृदये हरेः ॥ इत्यत्रापि शक्रैरावणौ मदमानमुक्तौ जाताविति व्यङ्गये शऊरावणयोरभिधाजन्यबोधविषयत्वान्मदमानमोक्षस्यैव व्यङ्गयत्वं पर्यवस्यति । एवं च व्यङ्गयांशस्य कदापि रूपान्तरेणाभिधानाद्धय॑शस्य चाभिधेयत्वेन व्यनयत्वानहतया ब्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगतमेवेति. कार्यादिद्वारेणाभिधानमित्येव लक्षणार्थ उचित इति ॥
अभिनवगुप्तपादाचार्यास्तु-पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्गयेनोपलक्षितमुक्तमभिहितं पर्यायोक्तमिति लक्षणार्थ इत्याहुः ।
अत्र दीक्षिताः-उभयोरप्ययं क्लेशो व्यर्थ एव । सन्ति हि व्यङ्गयस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । यथा
_ 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ।' १. 'सविकल्पके च तयो' ख.