SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। ३४१ कारत्वं न स्यात् सादृश्यस्य वास्तवत्वेन कविप्रतिभाकल्पितत्वविरहात् । न च तत्राप्युपमाप्रयोजकसाधारणधर्माभेदांशे तत्कल्पितत्वमेवेति वाच्यम् । रमणीयत्वादिनिमित्तधर्मस्यापि लोकप्रसिद्धात् । 'गोसदृशो गवयः' इत्यादेरपि वस्तुतो भिन्नसाधारणधर्माभेदाध्यवसायमूलकत्वात् । द्रव्यत्वादिनिमित्तकसादृश्यस्य शक्तिपरिच्छेदकत्वायोगात् । अभेदांशस्यैव शक्तिकल्पिततया तदंशस्यैवालंकारत्वं न तु सादृश्यस्येत्युक्तदोषापरिहाराच्च । कल्पितत्वावच्छेदकधर्मावच्छिन्नचमत्काराजनकतायास्तद्धर्मावच्छिन्नमात्रालंकारत्वप्रयोजकतायास्त्वयैवोक्तत्वात् । चमत्कारजनकस्य लौकिकस्याप्यलंकारत्वे बाधकाभावात्सर्वालंकारोच्छेदापत्तेश्चेति कृतं पल्लवितेन ॥ इति काव्यलिङ्गम् । पर्यायोक्तं निरूपयति पर्यायोक्तं कथितं वाच्यस्यैवान्यभङ्गन्योक्तिः । वाच्य एवार्थो यत्र व्यङ्गचतयोच्यते तत्पर्यायोक्तम् । अत एव न ध्वनित्वम् । तत्र वाच्यव्यङ्गययोर्भेदात् । एवं च 'व्यङ्गयप्रकारसमानाधिकरणप्रकारान्तरेणाभिधानं तत्' इति पर्यवस्यति ॥ यथा'निवेद्यतां हन्त समापयन्तौ शिरीषकोषं म्रदिमाभिमानम् ।। पादौ कियदूरमिमौ प्रयासे निधित्सिते तुच्छदयं मनस्ते ॥' अत्र कियडूरं गन्तुमिच्छसीति व्यङ्ग्यम्, तदेव भणयन्तरेणोक्तम् । दूरगमनेच्छात्वेन प्रकारेण व्यङ्गयत्वं पादनिधानेच्छात्वेन इच्छाया वाच्यत्वम् । न चैकस्यैवार्थस्य व्यापारद्वयेनावगमवैयर्थ्यात्पौनरुक्त्यमिति वाच्यम् । प्रकारभेदसत्त्वेन तदभावात् । तदुक्तम्-'यदेवोच्यते तदेव व्यनयं न तु यथोच्यते तथा' इति यथा हि । निर्विकल्पकज्ञाने घटो घटत्वं च विषयः । घट इति सविकल्पकेऽपि तदेव । तत्र च निर्विकल्पकत्वे १. 'र्थो व्यञ्जनयो' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy