________________
३४०
काव्यमाला ।
यत्तु — तंत्रानुमानेन चरणत्रयोक्तसादृश्याश्रयविघटकत्वहेतुकदैवपक्षकसादृश्यदर्शनजन्यसुखासहिष्णुकसाध्य कानुमितिसंभवादिति, तदसत् । उत्पलादिमज्जनोपपत्त्यर्थमेवात्र चतुर्थचरणोपन्यासात् तदुक्तरीत्या च विपरीतोपपाद्यैरुपपादकभावलाभप्रसङ्गात् । तस्य चात्रानभिमतत्वात् । सादृश्याश्रयविघटकत्वहेत्वसिद्धेश्च तद्दर्शनस्यैव विघटनात् । न च तदेव हेतुः कर्तव्य इति वाच्यम् । प्रतिबन्धकादौ व्यभिचारात् । व्यभिचारस्फुरणदशायामनुमितिः संभवत्येवेत्यभिधाने तूपपादकत्वस्यापि संभवात् । त्वदुक्तोदाहरणेऽपि ‘गङ्गा, सर्वोत्कृष्टा, महापापनाशहेतुत्वात्' इत्यनुमानसंभवाच्च ॥
यदपि [रसगङ्गाधरे]—समर्थना दृढतरप्रत्ययो नानुमितिः - इति पक्षमनूद्य—स हि न प्रात्यक्षिकः इन्द्रियसंनिकर्षाभावात्, न शाब्दो मानसो वा, अनुमितिसामग्र्याबलवत्त्वात् — इति, तदप्यसत् । सत्यां व्यभिचारस्फूर्तावनुमितिसामग्र्या एवाभावात् । न च न तदा व्यभिचारस्फूर्तिरिति वाच्यम् । सत्यामपि तस्यां तदुपपत्तेरनुभवसिद्धत्वात् । तस्याश्चानुमित्योपपादयितुमशक्यत्वात् ॥ वस्तुतः - अनुमितिरेवालंकारो न तु परामर्ष इत्यस्य वक्ष्यमाणतया मानान्तरेण साध्यसिद्धिसत्त्वे चानुमितेरनुदयात् नास्यानुमानान्तर्भावशङ्कापीति सर्वमनवद्यम् ॥
यत्तु [रसगङ्गाधरे] - काव्यलिङ्गं नालंकारः कविप्रतिभानिर्मितत्वप्रयुक्तचमत्कारविशेषात्मकविच्छित्तिविरहात् । हेतुहेतुमद्भावस्य लोकसिद्धत्वात् । श्लेषादिसंमिश्रणजन्यस्तु चमत्कारः श्लेषप्रयुक्तत्वात्तदंशस्यैवालंकारतां कल्पयति, न तु काव्यलिङ्गस्य तेत्प्रयोज्यचमत्कारान्तराभावादिति, तत्तुच्छम् । लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्कारजनकत्वात् एतदीयहेतुहेतुमद्भावमात्रस्य लोकसिद्धत्वाभावाच्च । नक्तसुखालोकोच्छेदादीनां महामोहतादात्म्यादिहेतुत्वं क्वचित्सिद्धम् । किं चैवमप्युपमादेरप्यलं
१. ‘दैवं नायिकाङ्गसादृश्य दर्शनजन्यसुखादिसहिष्णु, तत्तन्नायिकाङ्गसादृश्याधारविघटकत्वात्, मदीयशत्रुभूतयज्ञदत्तादिवत्' इति चानुमानप्रयोगो रसगङ्गाधरे दर्शितः. २. 'तत्प्रयोजक' ख.