________________
अलंकारकौस्तुभः ।
अत्र भगवान् वासुदेवः खासाधारणरूपेण व्यङ्गयः । राहुवधूकुचवैमध्यकारित्वरूपान्तरेण स एवाभिहितः ।
यथा वा
'लोकं पश्यति यस्याङ्गिः स यस्याङ्घ्रि न पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥'
अत्र गौतमः पतञ्जलिश्च खासाधारणरूपाभ्यां व्यङ्गचौ प्रकारान्तरेणाभिहितौ ।
यथा वा
'देवं वन्दे जलधिशरधिर्देवतासार्वभौमं
३४३
व्यासप्रष्ठा भुवनविदिता यस्य वाहाब्धिवाहाः । भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी
शाटीपालाः शतमुखमुखाश्चन्दनं दुर्मनोभूः ॥' अत्र वेदत्वाद्याकारेण व्यङ्गया एव वेदादयो व्यासादिविनेयत्वाद्याकारेणाभिहिताः । एवं 'चक्राभिघात - ' इत्यादावपि स्वरूपेण व्यङ्ग्यस्यापि भगवतो रूपान्तरेणाभिधानमस्तीति यथाश्रुतलक्षणसंभवात् ॥ यच्च राहुच्छेदावगमनं तदंशे प्रस्तुताङ्कुर एव । प्रस्तुतेन राहोः शिरोमात्रावशेषेण आलिङ्गनवन्ध्यत्वाद्यापादरूपे भगवतो वाच्ये रूपान्तरे उपपादिते सति भगवद्रूपेणावगतिरेव पर्यायोक्तविषय इति ।
अत्र रसगङ्गाधरकृतः - सर्वस्वकारस्य तावद्यथाश्रुतत्यागबीजमुक्तमेव द्वितीयपक्षेऽपि तद्वीजं तु पर्यायशब्देन प्रकारान्तराभिधाने विवक्षितार्थतावच्छेदकतातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थः । तथा च'दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ।'
इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्गः । न च व्यङ्ग्यं यत्र तेन प्रकारेणोक्तं तत्पर्यायोक्तमिति वाच्यम् । व्यङ्ग्यस्य योगार्थानन्तर्गतत्वात् । न च लक्षणान्तर्गतत्वं तस्यास्त्येवेति वाच्यम् । एवं तर्हि व्यङ्ग्यस्य लक्षणे प्रवेशावश्यकत्वे पर्यायशब्देन ग्रहीतुमुचितत्वान्न तु प्रकारान्तरस्य, व्यङ्गयोपलक्षितस्य प्रकारान्तरेणै