________________
अलंकारकौस्तुभः ।
३३५
'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।'
इत्यादिवदिति केचित् ।
स्वकीयस्यान्याधीनत्वकरणमपि लक्षणान्तर्गतमित्यपरे ॥
इति परिवृत्तिः ।
भाविकं निरूपयति
भाविकमध्यक्षं स्यात्सध्वंसप्रागभावानाम् ।
सध्वंसा अतीताः सप्रागभावा भाविनः प्रतियोगित्वस्य साहित्यार्थतया विवक्षितत्वात् । तथा च भूतानां भाविनां चार्थानां यल्लौकिकप्रत्यक्षविषयत्वमुच्यते तद्भाविकम् । न चातीतानागतानां संनिकर्षविरहेण लौकिकप्रत्यक्षानुपपत्तिः, स्वरूपातिशयमाहात्म्येन तत्कृतोत्कर्षवत्ताया विवक्षितत्वात् ॥ भावः कवेरभिप्रायोऽस्त्यस्येति विषयत्वाख्यसंबन्धपरषष्ठीसमर्थात् मत्वर्थे ठन् । यत्तु — अस्मिन्निति विग्रहप्रदर्शनम्, तन्न । 'सप्तम्यां च न तौ स्मृतौ' इति भाष्यकारोक्तेः । भूतस्य लौकिकाध्यक्षविषयतासाम्येनोक्तिर्यथा'तं तस्य खरसंक्रमं मृदुगिरः श्लिष्टं च तन्नीखनं वर्णानामपि मूर्छनान्तरगतं तारं विरामे मृदुम् । लासंयमितं पुनश्च चलितं रागाद्विरुच्चारितं
यत्सत्यं विरतेऽपि गीतसमये गच्छामि शृण्वन्निव ॥' अत्र गीतविरामेऽपि तस्य श्रवणरूपसाक्षात्कारश्चारुदत्तेनोक्तः । स्मरणानवच्छेदरूपकार्येण दृढसंस्काराधायकतया तस्यातिरमणीयत्वे तात्पर्यम् ॥
―――
भाविनो यथा—
'खुहिअजलसिट्टसारो मुहणिद्धाविअपसारिओक्काणिवहो । आअड्डिज्जन्तो चिअ णज्जइ पडिओ त्ति साअरे रामसरो ॥' अत्र बाणस्य समुद्रमध्यपाते भाविन्यपि तस्मात्प्रागेव शरपातस्य लौकिकप्रत्यक्षमुक्तम् श्रीरामप्रभावातिशयवर्णने तात्पर्यम् ॥
१. 'क्षुभितजलशिष्टसारो मुखनिर्धावितप्रसारितोल्कानिवहः । आकृष्यमाण एव ज्ञायते पतित इति सागरे रामशरः ॥ [सेतु० ५।२८ ]