________________
३३४
काव्यमाला । . अत्र वर्णपिण्डेन वराटकोपादानादुत्तमेन न्यूनस्य ॥
एषा च क्वचिदर्थगम्यापि । यथा'सुहउच्छअं जणं दुल्लहं वि दूराहि अम्ह आणेन्त ।
उअआरअ जर जीअं वि णेन्त ण कआवराहो सि ॥' अत्र प्रियदर्शनजीवनयोविनिमयो गम्यते । यथा वा'चौएरिएण भरिअं अच्छि कण्णऊरउप्पलरएण ।
फुक्कन्तो अविइहं चुम्बन्तो को सि देवाणम् ॥' अत्राक्षिरजोविभागं दत्त्वा तचुम्बनोपादानम् । यथा वा'जम्मन्तरे वि चलणं जीएण खु मअण तुज्झ अच्चिस्सम् ।
जइ तं पि तेण बाणेण विज्झसे जेण हं विज्झा ॥' अत्र नायकबाणवेधं सरद्वारा कृत्वा तस्मै जीवदानम् । यत्र चमत्कारस्तत्रैवेयम् । अतः'विकिणइ माहमासम्मि पामरो पावलिं वइल्लेण ।
णिद्भूममुम्मुर बिअ सामलीअ थणे पडिच्छन्तो ॥' इत्यादौ नातिप्रसङ्गः । अत्र खकीयं परित्यज्यान्यस्योपादानमेतदलंकारशरीरम् ॥
१. 'सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् । ___ उपकारक ज्वर जीवमपि नयन कृतापराधोऽसि ॥' [गाथा. १।५०] २. 'वातेरितेन भृतभक्षि कर्णपूरोत्पलरजसा । __फूत्कुर्वन्नवितृष्णां चुम्बन्कोऽसि देवानाम् ॥' [गाथा० २।७६] . ३. 'जन्मान्तरेऽपि चरणौ जीवेन खलु मदन तवार्चयिष्यामि ।
यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ॥' [गाथा० ५।४१] ४. "विक्रीणीते माघमासे पामरः प्रावरणं बलीवर्दैन । निर्धूममुर्मुरनिभौ श्यामल्याः स्तनौ पश्यन् ॥' [गाथा० ३।३८]