________________
अलंकारकौस्तुभः।
३३३ यमिति, तन्न । उक्तोदाहरणेषु किंचियतिरेकप्रयुक्ताप्राशस्त्यादिज्ञानादेव चमत्कारोदयात् ॥
इति विनोक्तिः। परिवृत्तिं निरूपयति
सदृशासदृशैरईरर्थानां विनिमयस्तु परिवृत्तिः । समेन समस्य, न्यूनेनोत्तमस्य, न्यूनेन न्यूनस्य च विनिमय इति त्रेधा परिवृत्तिः । आद्या यथा'आदाय चरणकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानमवञ्चितं मन्ये ॥' अत्र मालविकाया अशोकवृक्षात्कर्णावतंसार्थ किसलयं गृहीत्वा तत्र दोहदार्थ चरणप्रहारः कृतः इत्यग्निमित्रोक्तौ उत्तमेनोत्तमस्य विनिमयः । न्यूनेन न्यूनस्य यथा
'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् ।
गृह्णतां त्वत्पुरस्थानां को लाभः स्मरशासन ॥' इति रसगङ्गाधरकृतः। द्वितीया यथा'आदत्त दीप्तं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः । रंज्यत्तुषारद्युति कूटहेम तत्पाण्डुलाभं रजतं क्षणेन ॥'
अत्र सायंकालेन चन्द्ररूपं कृत्रिमसुवर्ण दत्त्वा सूर्यरूपो मणिविशेषो गृहीत इति न्यूनेनोत्तमस्य ।
तृतीयां यथा'अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः । विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥' १. 'उत्तमेन' इत्यलंकारमुक्तावलीसदृश एवात्रापि पाठो योग्यः, 'उत्तमेन न्यूनस्य' इति तृतीयोदाहरणोपसंहारग्रन्थातू. २. 'रज्यन्तियारद्युति' ख.