________________
३३२
काव्यमाला |
यत्र केनचिद्विना कस्यचिदप्राशस्त्यं प्राशस्त्यं वोच्यते सा विनो
क्तिरित्यर्थः ।
आद्या यथा
‘तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना यथा वनी स्ववनीसंप्रवदत्पिकापि का ॥ अत्र भैमीव्यतिरेकेण नलीयरूपादीनामप्राशस्त्यम् ।
यथा वा
'अनेन रहिता नैषा नानया रहितोऽप्यसौ । का जिनी विना हंसं कश्च हंसोऽब्जिनीं विना ॥' अत्र मन्दारवतीसुन्दरसेनयोरन्योन्यव्यतिरेकप्रयुक्तमन्योन्यनिष्ठमप्राश
स्त्यम् ।
द्वितीया यथा मम -
'निशयेव विना सरोजिनी सरसी प्रावृषमन्तरा यथा । विषदत्वमुपैति भारती जडभावेन विना विपश्चिताम् ॥'
अत्र जाड्यादिव्यतिरेकप्रयुक्तभारत्यादिनिष्ठप्राशस्त्याभिधानम् । विनापदं चार्थपरम् । तेनान्तरेत्यादीनामुपसंग्रहः । केचित्तु—नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः ।
यथा
'मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥
अत्र चन्दनादीनां शैत्यस्य विनाभावेऽपि विनाभावो निबद्ध इत्याहुः, तच्चिन्त्यम् । अत्र शैत्यसाक्षात्काराभावस्यैवोक्त्या शैत्यविनाभावस्यानुक्तेः । न च चन्दनादिस्पार्शनस्य शैत्यविषयकत्वनियमादत्र च चन्दनादिस्पार्शने शैत्यविषयक नियमस्यासिद्धेरिति तस्मादविनाभावोऽत्र प्रायिकसाहचर्यमेव ग्राह्यमित्येव संगतिः ।
यत्तु — अलंकारान्तरलिङ्गेनैवात्र चमत्कारो न स्वतः, अतो नातिरिक्ते