________________
अलंकारकौस्तुभः । अत्राद्ये कार्यकारणयोः साहित्यरूपातिशयोक्तिमूलेयम् । गोपीशोकस्य कलमशोषजन्यत्वेऽपि द्वयोः समानकालत्वाभिधानात् समास्फालिताकृष्टादिधर्मयोरभेदाध्यवसायरूपातिशयोक्तिमूला । धनुषः समास्फालनं क्रियाविशेषः संशयज्ञानस्यानाकर्षणकोटिप्रतिबन्धः । आकर्षणं खाभिमुखजनकं कर्म । मनसस्तु खानुरक्तत्वमिति विशेषसत्त्वात् । ___ अत्र वदन्ति-धर्मयोरभेदाध्यवसानमूलत्वस्थल एव सहोक्तिर्भवितुमहति । कार्यकारणयोः पौर्वापर्यविपर्ययात्मकातिशयोक्तिमूलभेदस्तु प्राचीनोक्तो न युक्तः। तत्रातिशयोक्तेरेवालंकारत्वसंभवात् । _ 'तव कोपोऽरिनाशश्च जायेते युगपन्नृप ।' इत्यतिशयोक्यपेक्षया
_ 'तव कोपोऽरिनाशश्च सहैव नृप जायते ।' इति सहोक्तौ विच्छित्तिविशेषाननुभवात् । तस्यैव चालंकारपार्थक्यव्यवस्थापकत्वात् । न चैवं धर्मयोरभेदाध्यवसानस्थलेऽप्यतिशयोक्तिसत्त्वाकथं पार्थक्यमिति सहोत्त्युच्छेद इति वाच्यम् । तत्राभेदाध्यवसायस्य सहोक्त्युपस्कारकत्वेन गुणतया सहोक्तितिरस्काराभावात् । पौर्वापर्यविपर्ययस्थले च सहोक्तेरेवातिशयोक्त्युपस्थापकत्वेन वैषम्यात् । किं च । उपमानेनोपमेयनिगरणमेवातिशयोक्तिरलंकारः । निगरणमात्रं तु न तथा । अतोऽत्रातिशयोक्तिविषयाभावात्सहोक्तिरेवेति । __ वस्तुतः-दीपके तुल्ययोगितायां वै तदन्तर्भावः । तत्रैकरूपेण सर्वत्र धर्मान्वयोऽत्र तु गुणप्रधानभावेनेति विशेषस्तु तदवान्तरभेदत्वमेव साधयति न त्वतिरिक्तत्वम्, विच्छित्तिविशेषानाधायकत्वात् । तस्मात्प्राचीनानुभवमात्रप्रमाणकमेवास्याः पार्थक्यमिति ॥
इति सहोक्तिः। विनोक्तिं निरूपयति
यत्रान्येन विनान्योऽसाधुः संन्वा विनोक्तिः सा । १. 'प्रकारा' ख. २. 'साधुः' इत्यलंकारमुक्तावल्यां पाठः.