________________
३३
काव्यमाला |
सहोति निरूपयति
सह समभिव्याहारात्सहोक्तिरुभयान्विते धर्मे । सहादिपदसंनिधानाद्यत्र धर्मवाचकपदस्य विशेष्यविशेषणोभयान्वितार्थबोधकत्वं सा सहोक्तिः । उभयनिष्ठधर्मस्य सहैवोक्तिर्यत्रेति व्युत्पत्तेरित्यर्थः । 'चैत्रमैत्रौ सहागच्छतः' इत्यत्र तु सहशब्दसमभिव्याहारप्रयुक्तो नोभयत्रान्वयः । न वा गुणप्रधानभावेनेति नातिव्याप्तिः । तस्माद्यत्रैकत्र मुख्यतयान्यत्र च गौणतया धर्मान्वयस्तत्रायमलंकारः । यथा—
‘दिअहे दिअहे सूसइ संकेअअभङ्गवडिओसङ्का । आवण्डुरोणअमुही कलमेण समं कलमगोवी ॥'
अत्र कलमेन समं कलमगोपी शुष्यतीति वाक्यम् । तत्राख्यातार्थप्रकारकशाब्दबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणतया गोपीत्यत्रैव शुष्यतीत्यस्यान्वयः संभवति न तु कलमपदे । तस्य प्रथमान्तत्वाभावात् । तथापि सहशब्दसमभिव्याहारात्तदन्वयः । सहार्थों हि साहित्यम् । तच्चै - कधर्मान्वयित्वरूपम् । न च कलमपदे शुष्यतीत्यस्यानन्वये तयोः साहित्यं संभवतीति । तथा च कलमनिष्ठसमानकालीनशोषाश्रया गोपीत्यर्थः ।
1
मालारूपा यथा
२
'धीरेण णिसाआमा हिअएण समं अणिट्ठि उवएसा । उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा ॥'
यथा वा
‘उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेहीमनसा समं च सहसाकृष्टं ततो भार्गव - प्रौढाहंकृतिदुर्मदेन सहितं तद्भनमैशं धनुः ॥'
१. 'दिवसे दिवसे शुष्यति संकेतकभङ्गवर्धिताशङ्का । आपाण्डुरावनतमुखी कलमेन समं कलमगोपी ॥ [ गाथा ० ७१९१] २. 'धैर्येण निशायामा हृदयेन सममनिष्टिता उपदेशाः ।
उत्साहेन सह भजौ बाष्पेण समं गलन्त्यस्योल्लापाः ॥' [सेत० ५७ ]