________________
अलंकारकौस्तुभः ।
३२९ न त्वन्यथा । न च खविपर्ययतात्पर्यवत्स्तुतिनिन्दान्यतरकत्वमेव प्रवृत्तिनिमित्तं तच्च सामानाधिकरण्यवैयधिकरण्योभयसाधारणमिति वाच्यम् । एकालंकारकोपाध्यवच्छिन्नविषयसाधारणस्यालंकारान्तरविभाजकोपाधेः कल्पयितुमनुचितत्वात् । वैयधिकरण्यस्थले चाप्रस्तुतप्रशंसयैवोपपत्तेस्तत्साधारणप्रवृत्तिनिमित्तकल्पने प्रमाणाभावात् ॥ तदुक्तमाचार्यदण्डिना
'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः । अर्थैरयत्नसुलभैर्जलदर्भाङ्कुरादिभिः ॥ सुखं जीवन्तु हरिणा न येष्व(ये ख)परसेविनः । सेयमप्रस्तुतेवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेशनिविण्णेन मनखिना ॥' इति ॥ यत्तु-अप्रस्तुतप्रशंसायामप्रस्तुतेन प्रस्तुतार्थप्रतिपत्तिमात्रं न तु प्रकृताप्रकृतयोनिन्दास्तुतिस्वरूपनियमः । अत्र स्तुत्या निन्दाभिव्यक्तिनियमात् । किं चैवं संमतस्थलेऽप्यप्रस्तुताभ्यां स्तुतिनिन्दाभ्यां प्रस्तुतनिन्दास्तुतिप्रतीतिरित्यप्रस्तुतप्रशंसैव स्यात् इति व्याजस्तुतेरुच्छेदापत्तिः । स्तुतिनिन्दाप्रतीतिनियमरूपविशेषादतिरेकस्तूभयत्रापि समानः । अतः- 'अर्थैरयत्नसुलभैः-' इत्यादौ व्याजस्तुतिरेव युक्तेति ॥ तच्चिन्त्यम् । अप्रस्तुतेन प्रस्तुतप्रतिपत्तिमात्रमप्रस्तुतप्रशंसाखरूपम् । तच्चोक्तस्थलेऽप्यबाधितमेवेति न निन्दास्तुतिप्रतीतिनियमवैलक्षण्येनातिरिक्तत्वसंभवः । उक्तधर्मावच्छिन्नत्वेन तदैक्यसिद्धयावान्तरविशेषेण तद्भेदानुपपत्तेः । अन्यथानयैव रीत्या सामान्यधर्मावच्छिन्नावान्तरतत्तद्विशेषस्थलेऽप्यलंकारान्तरकल्पनेऽप्रस्तुतप्रशंसाविलयापत्तेः ॥ यदपि किं चैवमित्यादि, तदप्यसत् । संमतस्थले स्तुतिनिन्दयोरेकधर्मत्वादप्रस्तुतप्रशंसायास्तत्रासंभवेन व्याजस्तुतेः पार्थक्यस्य साम्राज्यात् । प्रस्तुतर्मिकेऽप्यप्रस्तुतप्रशंसाभ्युपगमे तु ललितालंकारपार्थक्यखीकारस्तत्रैव व्याहतः स्यादिति दिक् ॥
. इति व्याजस्तुतिः ।