SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३६ काव्यमाला । ननु कारणाभावेऽपि कार्योत्पत्तिरूपाया विभावनायाः कोऽस्य भेदः । लौकिकप्रत्यक्षं प्रति विषयस्य हेतुतयानागतातीतविषयरूपहेतुव्यतिरेकेऽपि तत्प्रत्यक्षरूपकार्योत्पत्तिः ॥ एवं द्वितीयभेदस्यातिशयोक्तावेवान्तर्भावः । कारणात्प्रागेव कार्योत्पत्तेरभिधानात् । न चात्र 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा___ स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' इत्यादिवत् हेत्वभावत्वेनोक्तिर्नास्तीति वाच्यम् । 'आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंस्कारां साक्षात्कुर्वे त्वदाकृतिम् ॥ 'विरतेऽपि गीतसमये' इत्यादौ तत्तद्भूतभाव्यर्थकप्रत्ययैर्हेतूनां ध्वंसप्रागभावबोधनेन हेत्वभावोक्तिसत्त्वात् ॥ 'अनातपत्रोऽप्ययमत्र लक्ष्यते' इत्यादौ नचैव तदभावबोधनात्, इति चेत् । ___ उच्यते-कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकसंसर्गाभावत्वेन हेत्वभावोक्तौ विभावना । इह तु उक्तरूपावच्छिन्नप्रतियोगिताकत्वं ध्वंसप्रागभावयोर्न संभवत्येव तयोः सामान्यावच्छिन्नप्रतियोगिकत्वाभावात् । 'अनातपत्रोऽपि-' इत्यादौ तु विभावनासत्त्वेऽपि न क्षतिः । एवं द्वितीयभेदस्यातिशयोक्तावपि नान्तर्भावसंभवः । विषयतातिरिक्तसंबन्धावच्छिन्नकार्यतावच्छेदकधर्मावच्छिन्नतादात्म्यातिरिक्तसंबन्धावच्छिन्नकारणतावच्छेदकधर्मावच्छिन्नात्प्रागुत्पत्तावेवातिशयोक्तेरभ्युपगम्यत्वात् । कारणात्प्राकार्योत्पत्तिरित्यनेन प्रकारेणोक्तावेवातिशयोक्तिः । भाविविषयप्रत्यक्षत्वेनोक्तौ भाविकमित्यङ्गीकारात् । तन्मुखाभिधानानभिधानयोरेव नियामकत्वाच्च । किं च । तत्रत्यं कार्यतावच्छेदकं कार्याधिकरणवृत्तिप्रागभावप्रति-' १. 'तवा' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy