________________
अलंकारकौस्तुभः ।
३२७
प्रातिखिकश्च । तत्र जातिविशेषावच्छिन्नस्य तस्य चमत्कारित्वेऽपि दशावि - शेषावच्छिन्नस्वभावस्य लौकिकत्वेऽपि प्रतिभामात्रगम्यतया चमत्कारजनकत्वादलंकारत्वादिति न्यायपञ्चाननादयः ।
यथा
'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । देरर्घावलीढैः श्रमविततमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥'
यथा वा
'कुर्वन्नामकण्ठो मुखनिकटकटिः कंधरामातिरवीं
लोलेनाहन्यमानं तुहिनकणमुचा चञ्चता केसरेण । निद्राकण्डूकषायः कषति निबिडित श्रोत्रशुक्तिस्तरङ्गस्त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणाक्रान्तमङ्गं खुरेण ॥' इति स्वभावोक्तिः ।
व्याजस्तुतिं निरूपयति
व्याजस्तुतिर्विपर्ययपर्यवसानेऽस्तुतिस्तुत्योः । अस्तुतेर्निन्दायाः स्तुतौ पर्यवसाने स्तुतेर्वा निन्दायां तात्पर्ये व्याजस्तुतिः । व्याजेन स्तुतिर्व्याजरूपा वा स्तुतिरिति व्युत्पत्तेरित्यर्थः ।
आद्या यथा मम —
'मित्रं वीर तिरस्करोषि महसा पूज्यं परं मन्यसे दूरादस्यसि मार्गणान्गुणयुतान्धत्सेऽतिवक्रं धनुः । नित्यं चासि सुवर्णदाननिरतो दण्डैकसतान्तरस्त्वां कैर्नाम गुणैस्त्रिलोकतिलक स्तुत्यास्पदं कुर्महे ॥' द्वितीया यथा
'किं केतकीकुसुम कौशलमुच्यतां ते
यद्वायसैरपि सदा सहभावमाप्य ।
१. 'सस्यै' ख.
-----