________________
३२६
काव्यमाला 1
ज्ञानप्रतिबध्यतावच्छेदकत्वकल्पनात् । यद्वा । आहार्ययोग्यताज्ञानेन विरोधज्ञानसत्त्वेऽप्यभेदान्वयबोधसंभवात् । अथ वा । ईदृशस्थले विरुद्धप्रतियोगिकाभेद एव संसर्गतया भासते । अपिशब्दश्च तात्पर्यग्राहकः । न च विरोधाभेदयोः परस्परविरुद्धत्वेनैककालावच्छिन्नैकसंसर्गत्वानुपपत्तेः । अभेदस्यैव नामार्थान्वयसंसर्गतया विरोधस्य तत्त्वे मानाभावाच्चेति वाच्यम् । अनुभवानुरोधेन तत्कल्पनात् । अभेदसंसर्गताया एवमप्यनपायाच्च । विरोधज्ञानस्य चाभेदसंसर्गकज्ञानत्वमेव प्रतिबध्यतावच्छेदकं न तु विरोधिविशेषितमपि । यद्वा । अपिशब्दोपस्थापितो विरोध एकपदार्थनिष्ठप्रकारतानिरूपितप्रतियोगित्वनिष्ठसांसर्गिक विषयतानिरूपितविशेष्यताशाली सन् आश्रयत्वसंबन्धेनापरपदार्थेऽन्वेति । पुनश्चैकपदार्थोऽभेदसंबन्धेनापरपदार्थेऽन्वेति । तथा च 'सुप्तोऽपि प्रबुद्ध:' इत्यत्र 'सुप्तत्ववदभिन्नश्च प्रबुद्धत्ववान्' इति बोधः, व्युत्पत्तिवैचित्र्याच्च सुप्तत्वादेः प्रतियोगितया विरोधे आश्रयत्वादिना च पदार्थान्तरेऽन्वयो न विरुद्ध इति युक्तमाकलयामः ॥ 'कुसुमानि शराश्वन्द्रो वाडवो दुःखितो हृदि ।'
इत्यादौ कथं विरोधस्यालंकारत्वम् आरोपसत्त्वेन रूपकस्यैव संभवात्, अन्यथा रूपकस्थलेऽपि विरोधस्यैवालंकारत्वप्रसङ्गात् ।
अत्राहुः — रूपकस्थले उपमाननिष्ठासाधारणगुणानामुपमेयगतत्वेन तत्प्रतिपत्त्यर्थं तन्निर्वाहकररोपस्यैव चमत्कारकत्वम्, न तु विरोधस्य, तेन विवक्षितार्थानुपादानात् । 'कुसुमानि -' इत्यादौ च कुसुमानामपि दुःखजनकत्वप्रयुक्त एव चमत्कारो विवक्षितो विरहिण्यवस्थादीनामत्यद्भुतस्यैव विवक्षितत्वात्तस्य च विरोधेनैवोपपादनात् । अतः सत्तामात्रेण नारोपस्यालंकारतेति ॥
इति विरोधाभासः ।
स्वभावोक्तिं निरूपयति-
यो वस्तुनः स्वभावस्तस्य निरुक्तिः स्वभावोक्तिः । तज्जातीयनियतधर्मवर्णनं समासोक्तिः । खभावो हि द्विविधः - साधारणः,