________________
अलंकारकौस्तुभः ।
३२५ अत्राकाशत्वं हिमवत्त्वं च न जातिरिति द्रव्ययोस्तादात्म्याभावरूपो विरोधः । कीर्तिबाहुल्यवर्णनात्परिहारः।
अत्र वदन्ति-विरोधार्थकस्यापिशब्दादेः सत्त्वे विरोधः शाब्दः, अन्यथा त्वार्थः, इति तावत्सिद्धान्तस्थितिः । तत्र यद्यपि विरोधस्य शाब्दत्वं न शब्दजन्यज्ञानविषयत्वं विशेष्यविशेषणसंसर्गातिरिक्तस्य शाब्देऽभानात् । न च 'त्रयोऽप्यत्रयः' इत्यादौ नजुत्तरपदार्थयोरन्वये प्रतियोगित्वस्य संसर्गत्वात्तस्यैव च विरोधपदार्थत्वात्संसर्गतयैव तद्भानमिति वाच्यम् । ‘सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाप्यगतेः । न च तत्रापि लक्षणया 'सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्नः सुप्तः' इति बोध इति वाच्यम् । तथाननुभवादिति उक्तव्यवस्थानुपपत्तिः । तथापि 'सुप्तोऽपि प्रबुद्धः' इत्यादौ स्वापप्रबोधरूपोभयधर्मोपस्थितौ सत्यां तयोविरोधोऽपि मर्यते । ततश्च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वात् 'विरुद्धाविमौ धौं' इति मानसे व्यञ्जनामूलके वा बोधे सति नैव प्रतिबन्धः । सुप्तप्रबुद्धादिपदार्थानामभेदान्वयबोधस्यानुदयात् । शक्त्यन्तरोल्लसितद्वितीयार्थमादायैवान्वयबोधः । न चैवं विरोधस्यालंकारत्वानुपपत्तिः शिथिलमूलत्वेन तस्य निवृत्तेरिति वाच्यम् । कविसंरम्भगोचरत्वेन तस्यैव चमत्कारहेतुत्वादिति । __ अन्ये तु-विरोधप्रतियोगिपदार्थयोर्विरोधज्ञानरूपप्रतिबन्धकसत्त्वादभेदान्वयबोधविरहे श्लेषभित्तिकाभेदाध्यवसायन्यायेन विरोधोल्लासकपदार्थोऽन्वयप्रतियोगिपदार्थाभिन्नत्वेन भासते । तथा चाभिन्नरुद्धार्थान्वयेऽपि तदभेदप्रतियोगिविरुद्धार्थस्यापि निःशेषतया निवृत्त्यभावान्मानसज्ञानविषयत्वेन विरुद्ध एव चमत्कारीत्याहुः ।
वयं तु—अन्वयप्रतियोगिपदार्थायोगाध्यवसितविरोधप्रतियोगिपदार्थेन सहैवान्यपदार्थाभेदान्वयबोधः । विरोधज्ञानसत्त्वेऽप्याहार्यव्यञ्जनाधीने वा बोधे तस्य प्रतिबन्धकत्वाभावेनाभेदज्ञानोपपत्तेः । यद्वान्वयप्रतियोगि. पदार्थाभिन्नत्वेनाज्ञायमानविरोधप्रतियोगिपदार्थाभेदान्वयज्ञानस्यैव विरोध.
१. 'चाविरुद्धा' ख. २. 'पदार्थाभेदा' ख.